________________
प्रकरणम् २५] बालमनोरमा तत्त्वबोधिनीसहिता। [२५५ हरिसक्थम् । संज्ञायां किम्-पृथुसेनः । अगकारात् किम्-विष्वक्सेनः । इएकोः इत्येव । सर्वसेनः । १०२४ नक्षत्राद्वा । (८-३-१००) (ग १८३) । एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः, रोहिणीसेनः । अगकारात् किम्-शतभिषक्सेनः । प्राकृतिगणोऽयम् । १८२५ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु । (६-३-६६) अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदास्था। अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यद्रागः। अन्यदीयः । अषष्ठीत्यादि किम्- अन्यस्यान्येन वाशीरन्याशीः । 'कारके के च नायं निषेधः' (वा ५०४८ )। अन्यस्य कारकोऽन्यत्कारः। अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः । १०२६ अर्थे विभाषा । (६-३-१००) अन्यदर्थः । अन्यार्थः । १०२७ कोः कत्तत्पुरुषेऽचि । (६-३-१०१) अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदबम् । तत्पुरुषे किम्-कूष्ट्रो राजा । 'त्रौ च (वा ३९६८) कुत्सितात्रयः कस्त्रयः। १०२८ रथवदयोश्च । (६-३-१०२) कद्रथः । कद्वदः । १०२६ तृणे च जातौ । (६-३-१०३) कत्तृणम् । स्यादित्यर्थः । नक्षत्राद्वा । स्पष्टम् । अषष्ठयतृतीयास्थस्य । अषष्ठयाम् अतृतीयायां च परतस्तिष्ठतीति अषष्ठयतृतीयास्थः, तस्य अषष्ठीतृतीयान्तस्येत्यर्थः । अषष्टीतृतीयास्थस्येत्येव सिद्धे नद्वयोपादानं स्पष्टार्थम् । आशीरादिग्विति । आशीः, आशा,
आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ इत्येतेषु इत्यर्थः । दुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । अन्यदाशीरित्यादयः कर्मधारयाः । नायं निषेध इति । 'अषष्ठयतृतीयास्थस्य' इति निषेधः कारकच्छयो स्तीत्यर्थः । भाष्योतमिदम् । अर्थ विभाषा । अन्यस्य दुगिति शेषः । कोः कत्तत्पुरुषेऽचि । कत् इति च्छेदः । शेषपूरणन सूत्रं व्याचष्टे-अजादावुत्तरपद इति । कदश्वः, कदन्नमिति । 'कुगति-' इति समासः । कूष्ट्रो राजेति । कुत्सित उष्ट्रो यस्येति बहुव्रीहित्वाद् न कदादेशः । त्रौ चेति । त्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थः । उत्तरपदस्याजादित्वाभावाद् वचनम् । रथवदयोश्च । 'कोः कत्तत्पुरुषे-' इति । इह 'ज्योतिःस्तोमोऽयम्' इति प्रत्युदाहर्तुमुचितम् । एति संक्षायामिति । सुषामाद्यन्तर्गणसूत्रमेतत् । एवं 'नक्षत्राद्वा' इत्यपि। विष्वक्सेन इति। चर्वस्यासिद्धत्वाद्कारेण व्यवधानमस्तीति भावः । अषष्ठय। अन्यदाशीरित्यादयः कर्मधारयाः। नायं निषेध इति । एतच्च 'अषष्ठीतृतीयास्थस्य-' इत्येव सिद्धे निषेधानित्यत्वज्ञापनार्थाद् द्विर्नन उपादानाल्लभ्यत इत्याहुः।ौ चेति । अनजाद्यर्थमिदं वार्तिकम् ,