________________
२५४ ]
सिद्धान्तकौमुदी ।
[ समासाश्रयविधि
।
इदम ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः । वतूदाहरणं वच्यते । 'दृत्रे चेति वक्तव्यम्' (वा ३६६२) ईदृतः । कीदृक्षः | 'श्रा सर्वनाम्नः' (सू ४३० ) । 'हत्ते च' (वा ३६१२) तादृक् । तादृशः । तावान् । तादृक्षः । दीर्घः, मोवे । अमूदृशः । अमूदृक् । श्रमूदृतः । १०१६ समासे ऽङ्गुलेः सङ्गः । ( ८-३-८० ) अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् - श्रङ्गुलेः सङ्गः । १०२० भीरोः स्थानम् । ( ८-३-८१ ) भीरुशब्दात्स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु भीरोः स्थानम् । १०२१ ज्योतिरायुषः स्तोमः । ( ८-३-८३) श्राभ्यां स्तोमस्य सस्य मूर्धन्यः समासे ज्योतिष्टोमः । श्रायुष्टोमः । समासे किम्-ज्योतिषः स्तोमः । १०२२ सुषामादिषु च । ( ८-३-१८) सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः । १०२३ एति संज्ञायामगात् । ( ८-३-६६ ) . ( ग १८२ ) सस्य मूर्धन्यः । हरिषेणः । एति किम्समानस्य सत्वमिति शेषः । सदृक्ष इति । 'क्सोऽपि वाच्यः' इति दृशेः क्सः । वतुरुत्तरार्थ इति । यत्तदेतेभ्यः परिमाणे वतुपः समानशब्दादसंभवादिति भावः । इदंकिमोरीश्की । ईश् की इति द्वे पदे । ईदृक्, ईदृश इति । इदमिव दृश्यते इत्यर्थे त्यदादिषु दृशेः क्विन्कयौ । ईशः शित्त्वं सर्वादेशत्वाय । वक्ष्यत इति । तद्धितप्रकरणे इयान् इत्युदाहरणं वक्ष्यत इत्यर्थः । दृक्षे चेति । इदंकिमोः ईश्की वक्तव्यौ इति शेषः । आ सर्वनाम्न इति । आ इति लुप्तप्रथमाक्रम् । तादृक्, तादृश इति । तदिव दृश्यत इत्यर्थे 'त्यदादिषु दृशः -' इति क्विन्कत्रौ । तदो दकारस्यास्वे सवर्णदीर्घः । तावानिति । तत् परिमाणमस्येति विग्रहे 'यत्तदेतेभ्यः-' इति वतुप् । तादृक्ष इति । तदिव दृश्यत इति विग्रहः । अमूहगित्यत्र प्रक्रियां दर्शयति-दीर्घ इति । दस त्त्वे कृते सवर्णदीर्घः । तत ऊत्त्रमत्वे इत्यर्थः । अः सेरिति व्याख्यानेऽपि श्रकारेण श्राकारस्यापि ग्रहणाद् ऊत्त्वमत्वे । समासेऽङ्गुलेः सङ्गः । भीरोः स्थानम् । ज्योतिरायुषः स्तोमः । अत्र त्रिसूत्र्याम् अङ्गुलेः सङ्गः, भीरोः स्थानम्, ज्योतिषः स्तोमः, आयुषः स्तोम इत्याद्यर्थे प्रत्यासत्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः । तद् ध्वनयन् प्रत्युदाहरति — श्रङ्गुलेः सङ्ग इत्यादि । नेह 'इएको:' इत्यनुवर्तते, व्याख्यानात् । सुषामादिषु च । स्पष्टम् । एति संज्ञायामगात् । एकारे परे सस्य षः दीर्घ इति । स त्वे कृते सवर्णदीर्घ इत्यर्थः । एतच्च पूर्वोत्तरोदाहरणान्वयि । भीरोः स्थानमिति । विसर्जनीयव्यवधानेऽपि षत्वप्राप्तिरस्ति । ज्योतिषः स्तोम