________________
प्रकरणम् २५ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २५३
तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः - एकगुरुकः । 'समानतीर्थे वासी' (सू १६५८ ) इति यत्प्रत्ययः । १०१६ विभाषोदरे । (६-३-८८) यादौ प्रत्यये विवक्षित इत्येव । सोदर्यः, समानोदर्यः । १०१७ दृग्दृशवतुषु । (६-३-८१) सदृक् । सदृशः । 'दृते चेति वक्रव्यम्' (वा ३११२) सदृक्षः । वतुरुत्तरार्थः । १०१८ इदंकिमोरीश्की । ( ६-३-६०) दृग्दृशवतुषु सति सब्रह्मचारीति रूपमित्यर्थः । समानत्वं च वेदद्वारा बोध्यम् । तथाच समानवेदाध्ययनार्थं व्रतचारीति फलितोऽर्थः । भाष्ये तु समाने ब्रह्मणि व्रतं चरतीत्यर्थे चरेणिनिः व्रतशब्दस्य लोपश्च अत्र निपात्यत इत्युक्तम् । तीर्थे ये । यशब्दाद् अकारान्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमध्याहार्यम् । ‘यस्मिन् विधिः-' इति तदादिविधिः । तदाह — यादौ प्रत्यय इति । नात्र यप्रत्ययान्त तीर्थशब्दे परे इति व्याख्यातुं शक्यते, 'समानतीर्थे वासी' इति समानतीर्थशब्दात् कृतसमासादेव (वासीति तद्धितार्थे) यप्रत्ययविधानात् । स च यप्रत्ययः अन्तरङ्गे समावे कृत एव भवति । 'समर्थानां प्रथमाद्वा' इति सूत्रेण परिनिष्ठितादेव तद्धितोत्पत्तेर्वदयमाणत्वात् कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्त्वात् । अतो यप्रत्ययपरकत्वं समानशब्दस्य कथमित्यत आह-विवक्षित इति । सतीर्थ्य इति । समाने तीर्थे वासीत्यर्थः । अत्र सामीप्ये सप्तमी । समानशब्दस्त्वेकपर्यायः । तीर्थशब्दो गुरौ, तदाह - एक गुरुक इति । तद्धितार्थ समासप्रवृत्तये तद्धितं दर्शयति - समानेति । 'निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः । विभाषोदरे । उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः । इत्येवेति । अनुवर्तत एवेत्यर्थः । दृग्दृशवतुषु । समानस्य स इति शेषः । सदृक् सदृश इति । समानो दृश्यत इत्यर्थे 'समानान्ययोश्च' इति दृशेः क्विन् कञ् च । दृक्षे चेति । इत्यर्थः । ब्रह्मचारिणश्च समानत्वं ब्रह्मणः समानत्वात् । ततश्च 'समाने ब्रह्मणि व्रतचारी' इति फलितोऽर्थः । तीर्थे ये । अकारो न विवक्षितः । प्रत्यय इति विशेष्यं तु व्याख्यानाल्लभ्यते । तेन ' यस्मिन्विधिः -' इति तदादिविधिरित्याह- यादौ प्रत्यय इति । विवक्षित इति । उत्तरपदमात्रनिमित्तः समासोऽन्तरङ्गः, समास प्रकृतिकसुबन्तात्तु यत्प्रत्ययः, अतस्तस्य परत्वं न संभवतीत्याशयेनेदमुक्तम् । सोदर्य इति । 'समानोदरे शयितः' इत्यर्थे प्रत्ययात्प्राक् समानस्य सभावे कृते 'सोद्राद्यः' इति यः । सभावाभावपक्षे तु 'समानोदरे शयित श्रो चोदात्तः' इति यति समानोदर्यः । सदृक् । सदृश इति । 'समानान्ययोश्चेति वक्तव्यम्' इति दृशेः क्विनकञौ । १ 'कृतसमासादेव' इत्यस्यादौ क्वचित् ' तद्धितार्थ -' इति इति पाठः । २ अयं कोष्टान्तर्गतः पाठः क्वचिन्नास्ति ।
1
I