SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २५२ ] सिद्धान्तकौमुदी। [समासाश्रयविधिसध्शवचनोऽस्ति, सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि । १०१३ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु । (६-३-८५) एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि । १०१४ चरणे ब्रह्मचारिणि । (६-३-८६) ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याच्चरणे समानस्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः, तदभ्ययनार्थ व्रतमपि ब्रह्म, तवरतीति ब्रह्मचारी, समानस्य सः, सब्रह्मचारी। १०१५ तीर्थे ये । (६-३-८७) समानस्य सभावः । 'जात्यन्ताच्छ बन्धुनि' इति छः । इत्यादीति । संग्राम इत्यादिसंग्रहः । योगविभागस्य भाष्यादृष्टत्वाद् युक्त्यन्तरमाह-अथवेति । तेनेति । तेन सदृशवचनेन सहशब्देन बहुव्रीहिरित्यन्वयः तथा च 'वोपसर्जनस्य' इति सहस्य सभाव इति भावः । ननु तर्हि समानः पक्षो यस्य इति कथं विग्रहः । सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह-अस्वपद इति । वृत्तावेव सहशब्दः सदृशवचन इति भावः । ज्योतिर्जनपद । अच्छन्दोऽर्थ वचनमिदम् । सज्योतिरिति । समानं ज्योतिर्यस्येति विग्रहः । एवं सजनपद इत्यादीति । सरात्रिः, सनाभिः, सनामा, सगोत्रः, सरूपः, सस्थानः, सवर्णः, सवयाः, सवचनः, सबन्धुः । चरणे ब्रह्मचारिणि । समानस्येति स इति चानुवर्तते । उत्तरपद इत्यधिकृतम् , तदाहब्रह्मचारिण्युत्तरपदे समानस्य सः स्यादिति । चरणे इति सप्तमी समानस्येत्यत्रान्वेति । चरण विद्यमानस्येत्यर्थः । फलितमाह-चरणे समानत्वेन गम्यमान इति । तत्र चरणपदं व्याचष्टे-चरणः शाखेति । वैदिकप्रसिद्धिरेवात्र मूलम् । ब्रह्मचारिपदं निर्वक्तुमाह-ब्रह्म वेद इति । 'वेदस्तत्त्वं तपो ब्रह्म' इत्यमरः । तश्चरणार्थमिति । तस्य वेदस्य चरणम् अध्ययनं तच्चरणम् , व्रतमपि ब्रह्मशब्देन विवक्षितमित्यर्थः । गौण्या वृत्त्येति शेषः । तच्चरतीति । तद् व्रतं चरति अनुतिष्ठतीत्यर्थे ब्रह्मचारिशब्द इत्यर्थः । 'सुप्यजाती-' इति णिनिः । समानस्य स इति । समानो ब्रह्मचारीति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे च्छन्दसि' इति सूत्रमिहोपन्यस्तमिति भावः । बहुव्रीहिरिति । तेन 'वोपसर्जनस्य' इति सहस्य सभावः प्राप्नोतीति भावः । सज्योतिरिति । समान ज्योतिरस्येति बहुव्रीहिः । यस्मिन् ज्योतिषि आदित्य नक्षत्रे वा संजातं तदस्तमयपर्यन्तमनुवर्तमानमाशौच सज्योतिः इत्युच्यते । इह 'समानमध्यमध्यमवीराश्च' इति प्रतिपदोक्त एव समासो न गृह्यते, 'सरूपाणामेकशेषः-' इति लिङ्गात् । किंतु बहुव्रीहिरपि इति हरदत्तः । ब्रह्मचारीति । 'व्रते' इति णिनिः सब्रह्मचारीति । समानो ब्रह्मचारी
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy