________________
प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५१ (६-३-८०) अनुमेये द्वितीये सहस्य सः स्यात् । सरासीका निशा। राक्षसी साक्षादनुपलभ्यमाना निशयानुमीयते । १०१२ समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु । (६-३-८४) समानस्य सः स्यादुत्तरपदे, न तु मूर्धादिषु । 'मनु भ्राता सगर्म्यः । अनु सखा सयथ्यः । यो नः सनुत्यः ।' 'तत्र भवः' इत्य 'सगर्भसयूथसनुतायन्' (सू ३४६०) । प्रमूर्धादिषु किम्-समानमूर्धा । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधयं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः द्वितीये चानुपाख्ये । अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः । उपाख्यायते प्रतीयते उपलभ्यते इत्युपाख्यम् , तदन्यदनुपाख्यम् , अनुमेयमिति यावत् । तदाहअनुमेय इति । सहायवाचिन्युत्तरपदे परत इत्यर्थः । सराक्षसीका निशेति । 'तेन सह-' इति बहुव्रीहिः। 'नवृतश्च' इति कप् । अनुमेयराक्षसीसहिता निशेत्यर्थः । तदाह-राक्षसी साक्षादिति । समानस्य । नतु मूर्धादिष्विति । मूर्धन् , प्रभृति, उदर्क एषु परेषु नेत्यर्थः । सगर्घ्य इति । समाने गर्भे भव इत्यर्थः । सयथ्य इति । समाने यूथे भव इत्यर्थः । सनुत्य इति । समान नुते भव इत्यर्थः। सर्वत्र 'तद्धितार्थ-' इति समासे समानस्य सभावः । समानमूर्धति । समानो मूर्धा यस्येति विग्रहः । समानप्रभृतय इति । समानः प्रभृतिराद्यवयवो येषामिति विग्रहः । समानोदर्का इति । समान उदों येषामिति विग्रहः । तैत्तिरीये 'सजूर्ऋतुभिः सजूर्विधाभिः, सर्वसुभिः सजूदेवैः, सजूरुद्रः, सजूरादित्यैः, सजूर्विश्वैर्देवैः, सनर्देवैर्वयोनारग्नये त्वा वैश्वानरायाश्विनाध्वर्यु सादयतामिह त्वा' इति मन्त्राः संसृष्टाः पञ्च पठिताः । पञ्चस्वपि मन्त्रेषु सजूर्ऋतुभिः सजूर्विधाभिरित्ययमाद्यवयवः, सजूदेवैर्वयोनाथैरित्यन्तावयवश्च समानः, सजूर्वसुभिः इत्यादिपञ्चानाम् एकैकस्य क्रमेण एकैकस्मिन् मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा । ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह-समानस्येति योगो विभज्यत इति । तथा च समानस्य सः स्यादिति वाक्यान्तरं संपद्यते । तत्र छन्दसीत्यभावाल्लोकेऽपि क्वचिद्भवतीति लभ्यत इति भावः । सपक्ष इति । समानः पक्षो यस्यति विग्रहः । साधर्म्यमिति । समानो धर्मो यस्य स सधर्मा, समानस्य सभावः । तस्य भावः साधर्म्यम् । ब्राह्मणादित्वात् प्यञ् । सजातीयमिति । समाना जातिर्यस्य इति विग्रहः । ग्रन्थान्तग्रहणम् । द्वितीये । 'अप्रधानो यः स द्वितीयः' इति लोकप्रसिद्धम् , उपाख्यं प्रत्यक्षं तद्भिन्नमनुमेयं तदाह-अनुमेय इति । सराक्षसीकेति । 'नातश्च इति कम् । योगो विभज्यत इति । एतदर्थमेव छान्दसमपि 'समानस्य