SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २५० ] सिद्धान्तकौमुदी। [समासाश्रयविधिरात्रिचरः । रात्रिमटः, राज्यटः । अखिदर्थमिदं सूत्रम् । खिति तु 'अरुर्द्विषत्-' (स २६४२) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः । १००६ सहस्य सः संज्ञायाम् । (६-३-७८) उत्तरपदे । सपलाशम् । संज्ञायां किम्-सहयुध्वा । १०१० ग्रन्थान्ताधिके च । (६-३-७६) अनयोरर्थयोः सहस्य सः स्यादुत्तरपदे । समुहूर्त ज्योतिषमधीते । सद्रोणा खारी । १०११ द्वितीये चानुपाख्ये। तदन्तग्रहणम्' इति तु इह न भवति । कृती धातुप्रकृतिकत्वेन रात्रेः कृतः असंभवात् तदन्तविधिरित्यभिप्रेत्य आह-कृदन्ते पर इति । रात्रैर्मुम् वा स्यादित्यर्थः । रात्रिश्चरः, रात्रिचर इति । सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम्। रात्रिमटः, रायट इति । सुप्युपपदे मूलविभुजादित्वात् कः । उपपदसमासः। सुब्लुपक्षे मुम् । ननु रात्रिम्मन्य इत्यत्रापि मुम्विकल्पः स्यादित्यत आहअखिदर्थमिदं सूत्रमिति । खिति त्विति । खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेन 'अरुर्दिषदजन्तस्य-' इति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः । रात्रिम्मन्य इति । 'श्रात्ममाने खश्च' इति खश । स्वशः शित्त्वेन सार्वधातुकत्वात् तस्मिन् परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यं मुमिति भावः । सहस्य सः। उत्तरपद इति । शेषपूरणेनोक्तमिदम् । सह इत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः । 'वोपसजेनस्य' इत्यस्यापवादः । सपलाशमिति । 'तेन सहइति बहुव्रीहिः । वनविशेषस्य संज्ञेयम् । सहयुध्वेति । 'सहे च' इति क्वनिप् । असंज्ञात्वान्न सभावः । ग्रन्थान्ताधिके च । ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः । अनयोरर्थयोरिति । विद्यमानस्येति शेषः । समुहूर्तमिति । मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्त्रमधीत इत्यर्थः । अन्तवचने अव्ययीभावः 'अव्ययीभावे चाकाले' इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति । द्रोणपरिमाणादधिकत्यर्थः । मयूरव्यंसकादित्वात् सहशब्दस्याधिकवाचिनः समासः सभावश्च । गिलति इति गिलगिलः, तिमीनां गिलगिलः' इति विग्रहे इदमारब्धम् । रात्रे कृति । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाभावेऽपि रात्रिशब्दापरत्र कृतोऽसंभवात्कृदन्त उत्तरपदे अयं विधिरित्याशयेनोदाहरति-रात्रिचर इति । यद्यप्याचारक्किबन्तात् ण्वुलादिः संभवति, तथापि विलम्बितोपस्थितिकत्वात्स न गृह्यत इति भावः। नित्यमेवेति । पूर्वविप्रतिषेधेनेति भावः । रात्रिम्मन्य इति । 'आत्ममाने खश्च' इति खश् सार्वधातुकत्वत्तस्मिन्परे श्यन् । सहयुध्वेति । 'सहे च' इति क्वनिप । स्त्रियामपि 'वनो न हशः' इति निषेधात् ङीब्रौ न । समुहूर्तमिति । अन्तवचनेऽव्ययीभावः । 'अव्ययीभावे चाकाले' इत्यत्र कालपर्युदासादप्राप्ते सभावे
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy