________________
प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४६ पृण इति मूलविभुजादित्वात्कः । 'इत्येऽनभ्याशस्य' (वा ३६७७)। अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः । 'भ्राष्ट्राग्न्योरिन्धे (वा ३६७८) भ्राष्ट्रमिन्धः । अमिमिन्धः । 'गिलेऽगिलस्य' (वा ३६७६) । तिमिशिलः । अगिलस्य किम्-गिलगिलः । 'गिलगिले च' (वा ३६८०) । तिमिङ्गिलगिलः । 'उष्णभद्रयोः करणे' ( वा ३९८१)। उष्णङ्करणम् । भद्रकरणम् । १००८ रात्रेः कृति विभाषा । (६-३-७२) कृदन्ते परे । रात्रिचरः, दित्वाद् भव्याशब्दस्य परनिपातः । लोकस्य पृण इति । मुम्वक्तव्य इति शेषः । ननु लोकं पृणातीति विग्रहे कर्मण्यणि लघूपधगुणे रपरत्वे पर्ण इति स्यादित्यत श्राह-पृण इति मूलविभुजादित्वात् क इति । इत्येऽनभ्याशस्येति । मुम् वक्तव्य इति शेषः । अनभ्याशमित्य इति । अभ्याशः समीपम् , अनभ्याशं दूरम् , द्वितीयान्तमिदम् । इराधातोः प्रापणार्थकाद् ‘एतिस्तुशास्-' इत्यादिना क्यप् । 'गम्यादीनामुपसंख्यानम्' इति द्वितीयासमासः । सुब्लुकि मुम् । दूरं प्रापयि. तव्यः, न तु समीपमित्यर्थ मनसि निधायाह -दूरतः परिहर्तव्य इति । भ्राष्ट्राग्न्योरिन्ध इति । मुम् वक्तव्य इति शेषः । भ्राष्ट्रमिन्ध इति । भ्राष्ट्र धानादिभर्जनाहँ पात्रम्, तद् इन्धे तापयतीति भ्राष्ट्रमिन्धः, कर्मण्यणि उपपदसमासः । सुब्लुकि, मुम् । अग्निमिन्ध इति । अग्निं प्रज्वलयतीत्यर्थः । गिलेऽगिलस्येति । अगिलस्येति च्छेदः । गिले परे गिलभिन्नस्य मुम् वाच्य इत्यर्थः । तिमिङ्गिल इति । 'गृ निगरणे' । तिमिर्मत्स्यविशेषः । तं गिलतीति मूलविभुजादित्वात् कः । 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'अचि विभाषा' इति लत्वम् , उपपदसमासः, सुब्लुकि मुम् । गिलगिल इति । अयमपि मत्स्यविशेषः । गिलगिले चेति । अगिलस्य मुम् वाच्य इत्यर्थः । तिमिङ्गिलगिल इति । गिलं गिलतीति गिलगिलः, तिमीनां गिलगिल इति विग्रहः । संबन्धसामान्ये षष्ठी । तिमिषु गिलगिल इति निर्धारणसप्तमी वा । 'संज्ञायाम्' इति सप्तमीसमासः । उष्णभद्रयोः करण इति । मुम् वाच्य इत्यर्थः । उष्णङ्करणम् , भद्रङ्करणमिति षष्ठीसमासः । रात्रेः कृति विभाषा । अस्य उत्तरपदाधिकारस्थत्वेन 'प्रत्ययग्रहणे इत्यत्र 'आर्षत्वान्मुम्न' इति बोध्यम् । लोकम्पृण इति । पृणधातुः प्रीणनार्थः । 'पृणतिः पूरणकर्मा' इति तु हरदत्तः। अनभ्याशमित्य इति । अभ्याशं समीपं तद्भिन्नमनभ्याशम् । 'एतिस्तुशास्त्रजुषः' इति इणः क्यप् । भ्राष्ट्रमिन्ध इति । कर्मण्यणि उपपदसमासः । एवमग्निमिन्धोऽपि । गिलेऽगिलस्येति । 'गिलशब्दे उत्तरपदे अगिलस्य मुम्' इत्यर्थः । तिमिगिल इति। मत्स्यविशेषः । गिरतेर्मूलविभुजादित्वात्कः । 'अचि विभाषा' इति लत्वम् । गिलगिले चेति । 'गिलं