________________
२४८ ]
सिद्धान्तकौमुदी। [समासाश्रयविधितदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु हस्वः स्यात् । इष्टकचितम् । पक्केष्टकचितम् । इषीकतूलम् । मुजेषीकतूलम् । मालभारी । उत्पनमालभारी । १००७ कारे सत्यागदस्य । (६-३-७०) मुम् स्यात् । सत्यङ्कारः। अगदङ्कारः । 'प्रस्तोश्चेति वक्तव्यम्' (वा ३९७३)। प्रस्तुङ्कारः । 'धेनोभव्यायाम्' (वा ३६७५)। धेनुम्भव्या। 'लोकस्य पृणे (वा ३६७६) । लोकंपृणः । पूर्वपदमिष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यपदेशिवद्भावात् तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात् 'पदानाधिकारे तस्य च तदन्तस्य च' इति वचमेन वा तेषां ग्रहणम् । 'इको ह्रस्वः-' इत्यतो ह्रस्व इत्यनुवर्तते । तदाहइष्टकादीनां तदन्तानां चेति । इष्टकचितमिति । इष्टकादिभिश्चितमिति विग्रहः । 'कर्तृकरणे कृता-' इति समासः । तदन्तविधेः प्रयोजनमाह-पक्केष्टकचितमिति । इषीकतूलमिति । इषीकायास्तूलमिति विग्रहः । तूलमग्रम् , शष्प. मित्यन्ये । मुओषीकतूलमिति । मुजेषीकायास्तूलमिति विग्रहः । मालभारीति । 'सुप्यजातौ-' इति णिनिः । हारिष्विति पाठान्तरम् । कारे सत्यागदस्य । शेषपूरणेन सूत्रं व्याचष्टे-मुम् स्यादिति । 'अरुर्द्विषत्-' इत्यतस्तदनुवृत्तेरिति भावः। सत्यस्य अगदस्य च कारे परे मुम् स्यादिति फलितम् । मुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । सत्यंकार इति । भावे घञ् । सत्यस्य कार इति विग्रहः । शपथकरणमित्यर्थः । अगदंकार इति । गदो रोगः, तस्या भावः अगदः । अर्थाभावेऽव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तेः । अगदस्य कार इत्यर्थः । अस्तोश्चेति । कारे मुमिति शेषः । अस्तुंकार इति । अस्त्विति तिबन्तप्रतिरूपकमव्ययमभ्युपगमे वर्तते । धेनोरिति । मुम् वक्तव्य इति शेषः । धेनुभव्येति । नवप्रसवात् प्रागियमुक्तिः । भविष्यन्ती धेनुरित्यर्थः । 'भव्यगेय-' इति कर्तरि निपातनात् कृत्यप्रत्ययः । धेनुश्वासौ भव्या चेति विप्रहः । मयूरव्यसकागन्ध्यः, तस्य पुत्रः । इष्टकचितमिति । 'कर्तृकरण कृता-' इति तृतीयासमासः । पक्केष्टकचितमिति । पदाधिकारात्तदन्तविधिः प्रवर्तत इति भावः । मालभारीति । 'मालां बिभर्ति' इत्यर्थः । 'सुष्यजाती-' इति णिनिः। 'हारिषु' इति पाठान्तरम् । कारे सत्या । 'अरुर्द्विषत्-' इत्यतोऽनुवर्तनादाह-मुम् स्यादिति । सत्यंकारः शपथकरणम् । अशपथेऽपि 'सत्यादशपथे' इति डाचं बाधित्वा परत्वान्मुमेव । अगदंकारो वैद्यः । अस्तुंकारोऽभ्युपगमः । अस्त्विति तिङन्तप्रतिरूपकमव्ययम् । धेनुम्भव्यति । भविष्यन्ती धेनुरित्यर्थः । 'भव्यगेय-' इति निपातनात्कर्तरि कृत्यः । धेनुश्चासौ भव्या चेति विग्रहः । गौतमस्मृतौ तु 'अधेनुभव्या'
HTHHTHER
HEALTH