________________
प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४७ परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमानेह-अतिकारीषगन्ध्यपुत्रः। १००५ बन्धुनि बहुव्रीहौ । (६-१-१४) बन्धुशब्द उत्तरपदे व्यकः सम्प्रसारणं स्याबहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः । बहुव्रीहौ इति किम्-कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः । क्रीबनिर्देशस्तु शब्दस्वरूपापेक्षया 'मातम्मातृकमातृषु वा' (वा ३४४६ ) कारीषगन्धीमातः, कारीषगन्ध्यामातः । कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः । कारीषगन्धी. माता, कारीषगन्ध्यामाता । अत एव निपातनान्मातृशब्दस्य मातजादेशः, 'नधृतश्च' (सू ८३३) इति कविकल्पश्च । बहुव्रीहावेवेदम्, नेह-कारीषगन्ध्याया माता कारीषगन्ध्यामाता। चित्त्वसामर्थ्याचित्स्वरो बहुव्रीहिस्वरबाधते। १००६ इष्टकेषीकामालानां चिततूलभारिषु । (६-३-६५) इष्टकादीनां ध्यङन्त एवेति तत्र संप्रसारणे दीर्घ च परमकारीषगन्धीपुत्र इति रूपमिति भावः । इयं परिभाषा 'ध्यङः संप्रसारणम् ' इति प्रकृतसूत्रे भाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह--उपसर्जने विति । कारीषगन्ध्यामतिकान्तः अतिकारीषगन्ध्यः, 'अत्यादयः-' इति समासे, उपसर्जनह्रखः । तस्य पुत्रः अतिकारीषगन्ध्यपुत्रः। अत्र 'स्त्रीप्रत्यये तदादिनियमो न' इति निषेधो न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः । ष्यङ् त्वयं स्त्रीप्रत्ययोऽत्र उपसजन एव । अतस्तत्र तदादिनियमसत्त्वाद् अतिकारीषगन्ध्यशब्दो नैव ष्यङन्त इति न संप्रसारणमिति भावः । बन्धुनि बहुव्रीहौ । कारीषगन्धीबन्धुरिति । अत्र पत्युत्तरपदत्वाभावात् तत्पुरुषत्वाभावाच पूर्वेण न प्राप्तिः । मातन्मातृकमातृषु वेति । वार्तिकमिदम् । मातच, मातृक, मात् एषु परेषु व्यङः संप्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति-कारीषगन्धीमातः, कारीषगन्ध्यामात इति । मातृशब्दस्य मातजादेशः, अदन्तमेतत् । मातृके उदाहरति-कारीषगन्धीमातृका, कारीषगन्ध्यामातृक इति । 'नयतश्च' इति कप् । मातृशब्दे उदाहरतिकारीषगन्धीमाता, कारीषगन्ध्यामातेति । शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणम् ? 'नवृतश्च' इति नित्यविधानात् पाक्षिककप् च दुर्लभ इत्यत आह-अत एवेति । बहुव्रीहावेवेदमिति । 'बन्धुनि बहुव्रीहौ' इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः । मातजिति चित्करणं स्वरार्थमित्याह-चित्त्वसामर्थ्यादिति । इष्टकेषीका । उत्तरपदे इत्यधिकृतम् । तल्लब्धं दीर्घविधानं तु पक्षे सावकाशमित्यत आह-व्यवस्थितविभाषयेति । नेहेति । संप्रसारणमिह नेत्यर्थः । अतिकारीषेति । कारीषगन्ध्यामतिक्रान्तोऽतिकारीष