________________
२४६ ]
सिद्धान्तकौमुदी । [ समासाश्रयविधि
कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभापया इस्वो न । 'स्त्रीप्रत्यये चानुपसर्जने न' ( प २७) इति तदादिनियमप्रतिषेधात् दीर्घ इति । 'ठूलोपे -' इत्यतस्तदनुत्तरिति भावः । उत्तरपद इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । कौमुदगन्ध्यायाः पुत्र इति । विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य स कुमुदगन्धिः । ' सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहिः, कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च । 'उपमानाच' इति इत्त्वम् । कुमुदगन्धेरपत्यं स्त्री इत्यर्थे तस्यापत्यमित्यण् । ‘अणिञोरनार्षयोः -' इति तस्य ष्यङादेशः । 'यस्येति च' इति इकारलोपः । आदिवृद्धिः । यङश्चाप् । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्र इति षष्ठीसमासः । सुब्लुकि कौमुदगन्ध्यापुत्र इति स्थिते ष्यङः संप्रसारणेन यकारस्य इकारः । तस्य तदुत्तराकारस्य च 'संप्रसारणाच्च' इति पूर्वरूपेण इकारे 'संप्रसारणस्य' इति दीर्घे कौमुदगन्धीपुत्र इति रूपमिति भावः । 'हलः' इति दीर्घस्य तु नात्र प्रसक्तिः, संप्रसारणात् पूर्वस्य हल: संप्रसारणनिरूपिताङ्गावयवत्वाभावात् । कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पत्तिरिति विग्रहः । पूर्ववत्प्रक्रिया । 'इको sarssयो गालवस्य' इति पाक्षिकं हवमाशङ्कयाह - व्यवस्थितविभाषया
नेति । अत्र तु व्याख्यानमेव शरणम् । स्यादेतत् । करीषं गोमहिषादिपुरीषम्, करीषगन्ध इव गन्धो यस्य स करीषगन्धिः, तस्यापत्यं स्त्री कारीषगन्ध्या, परमा चोसौ कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्र इत्यत्रापि ष्यङः संप्रसारणं तस्य दीर्घश्चेति स्थितिः । अत्र संप्रसारणं दुर्लभम् । ष्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य व्यङन्त त्वाभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणादित्यत आहस्त्रीप्रत्यये चेति । ष्यङः स्त्रियां विहितत्वात् स स्त्रीप्रत्ययः । ततश्च 'स्त्रीप्रत्यये चानुपसर्जने न' इति परिभाषया तदादिनियमाभावात्परमकारीषगन्ध्याशब्दोऽपि व्याख्याने तु ‘कारीषगन्ध्यापरमपुत्रः' इत्यादावतिप्रसङ्गः स्यादिति भावः । संप्रसाररणस्य । ‘उत्तरपदे' इत्यधिक्रियते । 'ठूलोपे -' इत्यतो दीर्घ इत्यनुवर्तते, तदाहदीर्घः स्यादुत्तरपद इति । 'हलः' इति दीर्घोऽत्र न प्रवर्तते, प्रत्ययस्य लुका लुप्तत्वेनाङ्गसंज्ञाया अप्रवृत्तेः । कौमुदगन्ध्याया इति । कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । 'तस्यापत्यम्' इत्यणि कृते 'अणिञोः' इति ष्यङादेशः, 'यङश्चाप्' । ननु 'कौमुदगन्धीपुत्रः' इत्यादौ 'इको हवोऽङयो गालवस्य' इति हखेन भाव्यम् १ क्वचित्तु 'संप्रसारणनिमित्तनिरूपिते' इति पाठः । २ 'च सा' इति क्वचित् ।