________________
प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २४५ भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रवः कुटिः कौटिल्यम् । १००० एक तद्धिते च । (६-३-६२) एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् । १००१ ड्यापोः संज्ञाछन्दसोर्बहुलम् । ( ६-३-६३ ) रेवतिपुत्रः । अजक्षीरम् | १००२ त्वे च । ( ६-३-६४ ) स्वप्रत्यये स्यापोर्वा हस्वः । अजत्वम्, अजात्वम् । रोहिणिस्वम्, रोहिणीध्वम् । १००३ ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे । (६-१-१३) व्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे । १००४ सम्प्रसारणस्य । ( ६-३ - १३६) सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । 'अकुंसादीनाम् -' इति वार्तिके अ इति लुप्तप्रथमाकं पृथक्पदम् । तथा च भ्रकुंसादीनामवयवो यो भ्रशब्दः तस्य अकारः अन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः ।
ܬ
वा कुंसो भाषणमिति । तत्तदर्थज्ञापनमित्यर्थः । 'भ्रकुंसश्च भ्रकुंसश्च भ्रकुंसवेति नर्तकः' इत्यमरः, ‘भ्रकुटिर्भ्रकुटिकुटिः स्त्रियाम्' इति च । एकतद्धिते च । एकेति लुप्तषष्टकम् । तदाह – एकशब्दस्येति । स्त्रीप्रत्ययान्तस्येति शेषः, अन्यथा ह्रस्वविधिवैयर्थ्यात् । उत्तरपदे चेति । चकारात्तदनुकर्ष इति भावः । एकस्या आगतम् एकरूप्यमिति । ' हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः' । एकक्षीरमिति । एकस्याः क्षीरमिति विग्रहः । ङयापोः । उत्तरपदे ह्रस्वः स्यादिति शेषः । रेवतिपुत्र इति । कस्यचित्संज्ञेयम् । अथ छन्दस्युदाहरतिअजक्षीरमिति । अजायाः क्षीरमिति विग्रहः । 'परमं वा एतत्पयो यदजक्षीरम्' इति तैत्तिरीये । त्वे च । शेषपूरणेन सूत्रं व्याचष्टे – त्वप्रत्यये ङयापोर्वा हव इति । अजत्वं रोहिणीत्वमिति । संज्ञात्वाभावात् छन्दस्येवायमिति वृत्ति:,, अनुत्तरपदार्थं वचनम् । ष्यङः संप्रसारणम् । प्रत्ययग्रहणपरिभाषया ष्यङ इति तदन्तग्रहणम् । तदाह— ष्यङन्तस्य पूर्वपदस्येति । तस्य सूत्रस्य उत्तरपदाधिकारस्थत्वेऽपि तत्पुरुषग्रहणेन पूर्वपदलाभ इति भावः । उत्तरपदयोरिति । इदमपि तत्पुरुषपदलभ्यम् । यद्वा उत्तरपदाधिकारेण पूर्वपदमाक्षिप्यते । संप्रसारणस्य । कुटिकुटिकुटिः स्त्रियाम्' इति च । एकतद्धिते च । 'एक' इति लुप्तषष्ठीकम्, तदाह – एकशब्दस्येति । ह्रस्वविधानमस्य टावन्त एवोपयुज्यते न तु केवले, स्वभावत एव हस्वत्वादतो व्याचष्टे - एकस्या आगतमित्यादि । ष्यङः । इह तत्पुरुषपदेन पूर्वपदमुत्तरपदं चाक्षिप्यते, तत्र ष्यङा पूर्वपदस्य विशेषणात्तदन्तं गृह्यत इत्याह - व्यङन्तस्येति । पुत्रपत्योरुत्तरपदयोरिति । 'पुत्रपत्यन्तयो:' इति
G