________________
२४४ ] सिद्धान्तकौमुदी। [समासाश्रयविधिकिम्-उदकस्थाली । पूरयितव्ये इति किम्-उदकपर्वतः । ६६८ मन्थौदनसक्तुबिन्दुवज्रभारहारवीवघगाहेषु च । (६-३-६०) उदमन्थः, उदकमन्यः । उदौदनः, उदकोदन इत्यादि । ६९६ इको ह्रस्वोऽज्यो गालवस्य । (६-३-६१) इगन्तस्साड्यन्तस्य हस्खो वा स्यादुत्तरपदे । ग्रामणिपुत्रः, प्रामणीपुत्रः । इकः किम्-रमापतिः । अड्य इति किम्-गौरीपतिः । गालवग्रहणं पूजार्थम्, अन्यतरस्याम् इत्यनुवृत्तेः । 'इयडुवङ्भाविनामव्ययानां च नेति वाच्यम्' (वा ३६६३) श्रीमदः । अभङ्गः । शुक्रीभावः । 'अभ्रकुंसादीनामिति वक्तव्यम्' (वा ३६६४ ) भ्रकुंसः, भ्रकुंसः । भ्रकुटिः, भ्रकुटिः । 'भकारोऽनेन विधीयते' इति व्याख्यान्तरम् । अकुंसः । अकुटिः । भ्रवा कुंसो हत्त्वस्य एकैकवर्णधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते । पूरयितव्यं पूरणाई कुम्भादि । असंयुक्तहलादौ पूरयितव्यवाचके उत्तरपदे परे उदकस्य उद इत्यादेशः स्यादित्यर्थः । मन्थौदन । उदकस्य उदादेशो वेति शेषः। अपूरयितव्यार्थं वचनम् । उदमन्थः, उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसंपृक्ताः सक्लवो मन्थः । भर्जितयवपिष्टानि सक्तवः । उदौदनः, उदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसतवः, उदकसक्तवः । उदविन्दवः, उदकविन्दवः। उदवज्रःउदकवज्रः। उदभारः, उदकभारः। उदहारः, उदकहारः । उदवीवधः, उदकवीवधः । उदगाहः, उदकगाहः । वीवधस्तु जलाधाहरणयोग्य उभयतःशिक्यः स्कन्धबाह्यः काष्ठविशेषः । इको ह्रस्वः। अङय इति च्छेदः । ग्रामणीपुत्र इति । कर्मधारयः षष्ठीसमासो वा। नीधातोरीकारोऽयम्, न तु की प्रत्यय इति भावः। ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह-अन्यतरस्यामित्यनुवृत्तरिति । इयङवभाविनामिति । तदर्हाणामित्यर्थः । श्रीमदः।भूभड्न्ग इति । श्रीभ्रशब्दौ अजादिप्रत्यये परे इयवर्हाविति भावः । शुक्लीभाव इति । अभूततद्भावे च्चिप्रत्यये 'अस्य च्वौ' इति ईत्त्वम् । “च्चौ' इति दीर्घः । 'ऊर्यादिविडाचश्च' इति निपातत्वादव्ययत्वमिति भावः । अभ्रूकुंसादीनामिति । भ्रशब्दस्य उवङ्भावितया ह्रस्वनिषेधो यः प्राप्तः स नेत्यर्थः । अकारोऽनेनेति । रायधिकरण च' इति किप्रत्ययः । उदमन्थ इति । द्रवद्रव्यसंस्कृताः सक्तवो मन्थः । 'उदकेन मन्थः' इति विग्रहे 'तृतीया' इति योगविभागात्समास इति हरदत्तः । शुलीभाव इति । 'ऊर्यादिच्चिडाचश्च' इति च्व्यन्तत्वान्निपातत्वेऽव्ययत्वम् । भ्रकुंस इत्यादि । 'भ्रकुंसश्च भ्रकुंसश्च भ्रकुंसश्चेति नर्तकः' इत्यमरः । 'तन्द्री प्रमीलो