________________
प्रकरणम् २५ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२४३ शे । (६-३-५५) ऋचः पादस्य पत्त्याच्छे परे । गायत्री पच्छः शंसति । पादं पादमित्यर्थः । ऋचः किम्-पादराः कार्यापमं ददाति । ६६४ वा घोषमिश्रशब्देषु । (६-३-५६) पादस्य पत् । पद्धोषः, पादघोषः । पन्मिश्र, पादमिश्रः । पच्छब्दः, पादशब्दः । 'निष्के चेति वाच्यम्' (वा ३६५६) । पविष्कः, पादनिष्कः । ६६५ उदकस्योदः संज्ञायाम् । (६-३-५७) उदमेघः । 'उत्तरपदस्य चेति वक्तव्यम्' (वा ३९६६) । तीरोदः । ६६६ पेषंवासवाहनधिषु च । (६-३-५८) उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् । ६६७ एकहलादौ पूरयितव्येऽन्यतरस्याम् । (६-३-५६) उदकुम्भः, उदककुम्भः । एक इति 'कर्तृकरणे कृता-' इति समासः । ऋचः शे। शस्य शस्प्रत्ययैकदेशस्यानुकरणात् सप्तमीत्यभिप्रेत्योदाहरति-पच्छ इति । 'संख्यैकवचनाच्च वीप्सायाम्' इति पादशब्दात् शस् । 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वम्, नरिवह लोमादिशस्य ग्रहणम् , लोमादौ पादशब्दस्य पाठाभावात् । पादशः कार्षापणं ददातीति । कार्षापणाख्यपरिमाणविशेष सुवर्णादिकं पादं पादं ददातीत्यर्थः । वा घोष । शेषपूरणेन सूत्रं व्याचष्टेपादस्य पदिति । निष्के चेति । पादस्य पदिति शेषः । उदकस्योदः। उदकशब्दस्य उद इत्यादेशः स्याद् उत्तरपदे संज्ञायामित्यर्थः । उदमेघ इति । उदकपूर्णमेघसादृश्यात् कस्यचिदियं संज्ञा । उत्तरपदस्य चेति । उत्तरपदस्य उदकशब्दस्य उद इत्यादेशः स्यात् संज्ञायामित्यर्थः । क्षीरोद इति । क्षीरम् उदकस्थानीयं यस्येति विग्रहः । क्षीरोदं सर इति त्वसाध्वेव, असंज्ञात्वात् । पेषवास । पेषमिति णमुलन्तमव्ययम् । तस्मिन्वासवाहनधिषु च परत उदकशब्दस्य उदः स्यादित्यर्थः । असंज्ञार्थ वचनम् । उदपेषं पिनष्टीति । उदकेन पिनष्टीत्यर्थः । 'स्नेहने पिषः' इति णमुल् । 'कषादिषु यथाविध्यनुप्रयोगः । उदवास इति । उदकस्य वास इति विग्रहः । उदवाहन इति । करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति । उदकं धीयतेऽस्मिनिति विग्रहः । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । असंज्ञात्वस्फोरणाय घट इति विशेष्यम् । समुद्रे विति । तत्र उदधिशब्दस्य संज्ञात्वेन 'उदकस्योद-' इति पूर्वसूत्रेण सिद्धमित्यर्थः । एकहलादौ । ऋचःशे । 'शे' इति शस्प्रत्ययस्यदमनुकरणम् , लोमादिषु पादशब्दस्य पाठाभावान्मत्वर्थे शो न संभवतीति भावः । पच्छब्द इति । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । उदमेघ इति । सादृश्यात्पुरुषस्वयं संज्ञा । उदपेषमिति । 'मेहने पिषः' इति णमुल् । उदधिरिति । उदकं धीयतेऽस्मिमिति विग्रहः । 'कर्म