________________
२४२ ] सिद्धान्तकौमुदी। [ समासाश्रयविधिपद इत्वदन्त मादेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । 'अज्यतिभ्यां पादे च' ( उ ५७०-७१) इतीण्प्रत्ययः । अजेयंभावो निपातनात् । पदगः । पदोपहतः । ६६१ पद्यत्यतदर्थे । (६-३-५३ ) पादस्य परस्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे किम्-पादार्थमुदकं पाथम् । 'पादार्घाभ्यां च' (सू २०६३) इति यत् । 'इके चरतावुपसंख्यानम्' (वा ३६५८)। पादाभ्यां चरति पदिकः । पोदित्वात् छन् । ६६२ हिमका. षिहतिषु च । (६-३-५४) पद्धिमम् । पत्काषी । पद्धतिः । ६६३ ऋचः पद । पद इति लुप्तप्रथमाकं पृथक्पदम् । एग्विति । आजि, आति, ग उपहत इत्येतेष्वित्यर्थः । अदन्त इति । उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादिति भावः । अजतीति । 'अज गतिक्षेपणयोः' । पदातिरिति । पादाभ्यामततीति विग्रहः । 'अत गतौ' । अज्यतिभ्यामिति । पादे उपपदे अजधातोरतधातोश्च इण् स्यादिति तदर्थः । अजीत्यस्य 'अजेय॑घअपोः' इति वीभावमाशङ्कयाह-अजेय॑भावो निपातनादिति । आजीति निर्देशादित्यर्थः । पदग इति । पादाभ्यां गच्छतीत्यर्थः । 'गमश्च, अन्तात्यन्ताध्वदूरपारसर्वानम्तेषु डः' इति सूत्रस्थेन 'अन्येभ्योऽपि दृश्यते' इति वार्तिकेन गमधातोः डः । तदन्ते गशब्दे परे पाद स्यादन्तः पदादेशः । दकारान्तादेशे तु पद् इति स्यात् । पदोपहत इति । पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्तादेशे पदुपहत इति स्यात् । पद्यत्यतदर्थे । पद्, यति, अतदर्थे, इति छेदः । पद्या इति । 'विध्यत्यधनुषा' इति यत् प्रत्ययः । पाद्यमिति । 'पादार्घाभ्यां च' इति तादर्थ्य यत्प्रत्ययः । इके चरताविति । चरत्यर्थे विहितस्य छनो य इकादेशः तस्मिन् परे पादस्य पत्स्यादित्युपसंख्यानमित्यर्थः । हिमकाषि । एषु परेषु पादस्य पत्स्यादित्यर्थः। पद्धिममिति । पादस्य हिममिति विग्रहः । पत्काषीति । पादौ पादाभ्यां वा कषतीत्यर्थः । 'सुप्यजातौ-' इति णिनिः । पद्धतिरिति । हन्यते इति हतिः । कर्मणि क्तिन् । पादाभ्यां हतिरिति विग्रहः । सिन्ध्वन्ते-' इत्युभयंपदवृद्धिः । पादस्य पदा । उत्तरसूत्रे पद्ग्रहसात्पदेत्ययमदन्तः, सौत्रो विभक्तिलुक् । तदाह-अदन्त आदेश इति । तेन 'पदगः' इत्यादि सिद्धम्। पद्या इति । 'विध्यत्यधनुषा' इति यत् । पाद्यमिति । 'पादार्घाभ्यां च' इति यत् । पूर्वसूत्रे आज्यात्यादिषु प्राण्यङ्गस्यैव करणत्वसंभवादिहापि तद्वचन एव पादशब्दो गृह्यते, न परिमाणवचनः। तेन 'द्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यम् , त्रिपाद्यम्' इत्यत्र ‘पणपादमाष-' इति यति पदादेशो न भवति । एतच्च वृत्तिहरदत्तग्रन्थयोः स्पष्टम् । पत्काषीति । 'सुप्यजातौ-' इति णिनिः । पद्धतिरिति । कर्मणि क्लिन् ।