________________
प्रकरणम् २५]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २४१
नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । हस्वाभावपक्षे तु 'तसिलादिषु -' ( सू ८३६ ) इति पुंवत् । विद्वत्तरा । वृत्यादिषु विदुषीतरा इत्यप्युदाहृतम्, तनिर्मूलम् । ६८८ हृदयस्य हृल्लेखयदण्लासेषु । (६-३-५०) हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हृल्लासः । लेख इत्यणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेख ग्रहणं ज्ञापकम् 'उत्तरपदाधिकारे तदन्तविधिर्नास्ति' ( प २६ ) इति । ६८६ वा शोकप्य रोगेषु । ( ६-३-५१) हृच्छोकः, हृदयशोकः । सौहार्थम्, सौहृदय्यम् । हृद्रोगः, हृदयरोगः । हृदयशब्दपर्यायो हृच्छब्दोऽप्यस्ति, तेन सिद्धे प्रपञ्चार्थमिदम् । ६६० पादस्य पदाज्यातिगोपहतेषु । ( ६-३-५२) एषूत्तरपदेषु पादस्य च लक्ष्मीशब्दः कृदन्त इति भावः । उगितश्च । विदुषितरेति । 'विदेः शतुर्वसुः, इति वसुप्रत्ययः । उगिदन्तमिदम् । अनेकाच्त्वाद् 'नयाः शेषस्य -' इत्यस्याप्राप्तेरिदमिति भावः । विद्वत्तरेति । पुंवत्त्वे ङीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः । तन्निर्मूलमिति । पुंवत्त्वस्य दुर्वारत्वादित्यर्थः । 'विद्वच्छ्रेयसोः पुंवत्त्वं न वक्तव्यम्' इति वृत्तिः । परन्तु वचनमिदं भाष्यादृष्टत्वादुपेच्यमिति भावः । अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मताभिप्रायकम् । हृदयस्य । लेख, यत्, अण्, लास एषु परेषु हृदयस्य हृदादेश इत्यर्थः । हृदयं लिखतीति हृल्लेखः । कर्मण्यण् । हृदयस्य प्रियं हृद्यमिति । 'हृदयस्य प्रियः' इति यत्प्रत्ययः । हार्दमिति । 'तस्येदम्' इत्यण्, हृदादेशः । हृल्लास इति । घञन्तोऽयमिति भावः । लेखेत्यन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्यादिति प्राञ्चः । व्याख्यानादिति तत्त्वम् । तर्हि लेखग्रहणमेव व्यर्थम्, अणैव सिद्धेरित्यत आह-ज्ञापकमिति । ज्ञाप्यांशमाह - उत्तरपदाधिकारे तदन्तविधिर्नास्तीति । तत्फलं तु घरूपकल्पब्ग्रहणे तदन्तविध्यभावः । वा शोक । सौहार्द्यमिति । ब्राह्मणादित्वाद् भावे ष्यञि ‘हृद्भगसिन्ध्वन्ते-' इत्युभयपदवृद्धिः । सौहृदय्यमिति । भावे ष्यञ हृच्छब्दत्वाभावाद् आदिवृद्धौ 'यस्येति च' इति लोपे रूपमिति भावः । पादस्य स्त्रीतरेति । उगितः परा या नदीति । ईदूतोः केवलयोरपि नदीसंज्ञेत्याश्रित्येदमुक्तम् । विदुषितरेति । 'उगितश्च' इति ङीपि 'वसोः संप्रसारणम्' । वृत्त्यादिष्विति । प्रक्रियातयाख्यानानि चादिशब्दग्राह्याणि । अणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्याल्लेखशब्दोऽणन्त एव निर्दिष्ट इति भावः । नन्वेवं लेख ग्रहणमेव व्यर्थं स्यादण्प्रहणेनैव सिद्धरत श्राह - ज्ञापकमिति । अत एव 'घरूपकल्पेषु तदन्तग्रहणं न' इति व्याख्यातम् । सौहार्द्यमिति । ब्राह्मणादित्वात् ष्यञ्, हृद्भग