________________
४०८ ]
सिद्धान्तकौमुदी ।
[तद्धितेषु शैषिक
,
स्रुम्ने जातः स्रौघ्नः । श्रौत्सः । राष्ट्रियः । श्रवारपारीण इत्यादि । १३६४ प्रावृषष्ठप् ( ४-३-२६ ) एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः । १३६५ संज्ञायां शरदो वुञ् । ( ४-३ - २७ ) ऋत्वणोऽपवादः । शारदकाः दर्भविशेषा मुद्गविशेषाश्च । १३६६ उत्तरपदस्य । ( ७-३ - १० ) अधिकारोऽयम्, 'हनस्तः-' ( सू २५७४ ) इत्यस्मात्प्राक् । १३६७ श्रवयवादृतोः । ( ७-३ - ११ ) अवयववाचिनः पूर्वपदाहतुवाचिनोऽचामादेरचो वृद्धिः स्यात् जिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । श्रपरहैमनः । 'श्रवयबात् ' किम् - पूर्वासु वर्षासु भवः पौर्ववर्षिकः । 'ऋतोर्वृद्धिमद्विधाववयवानाम्' अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः । घादय इति । 'राष्ट्रावारपार -' इत्यादिभिः विशेषविहिता इत्यर्थः । प्रावृषष्ठप् । ठपः पित्त्वम् 'अनुदात्तौ सुप्पितौ' इति स्वरार्थम् । एण्यस्येति । 'प्रावृष एण्यः' इति त्रिहितस्येत्यर्थः । एवं च 'प्रावृष एण्यः' इति सूत्रं जातादन्यार्थमिति पर्यवस्यति । संज्ञायां शरदो वुञ् । संज्ञायामित्येतत् 'कृतलब्धकीत -' इत्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः । उत्तरपदस्य । अधिकारोऽयमिति । सप्तमे प्रादिवृद्धिप्रकरणे एतदादिसूत्राणि । अवयवाढतोः । पूर्वपदादिति । परस्येति शेषः । ऋतुवाचिन इति । उत्तरपदस्येति शेषः । पूर्ववार्षिक इति । ऋतुविशेषे वर्षाशब्दो नित्यस्त्रीलिङ्गो बहुवचनान्तः । वर्षाणां पूर्वं पूर्ववर्षाः, तत्र जात इत्यर्थ: । 'पूर्वापराधरोत्तरम्-' इत्येकदेशिसमासः । अपरहैमन इति । हेमन्तस्यापरम् अपरहेमन्तः । तत्र जातादिरित्यर्थः । एकदेशिसमासः । सर्वत्रारच तलोपश्च' इत्यण् तलोपश्च, उत्तरपदादिवृद्धिः । पूर्वासु वर्षास्विते । ' तद्धितार्थे-' इति ऽपि । न च 'जातादिष्वेवाणादयः' इति नियमार्थं जाताद्यर्थनिर्देश आवश्यकः, अन्यथा 'तत्रास्ते, तत्र शेते' इत्याद्यर्थेऽपि प्रत्ययः स्यादिति वाच्यम्, चाक्षुषमित्याद्यसिद्ध्यापत्तेः । ‘स्रुघ्न्ने आस्ते सने शेते' इत्यादौ त्वभिधानादेव तद्धितो न भविष्यति, अङ्गल्या खनत, वृक्षमूलादागत इत्यादौ यथा । समर्थविभक्तयस्त्वापेक्षादेव लप्स्यन्ते । चाक्षुषमित्यत्र तृतीया यथा, तस्मात् 'तत्र जातः' इत्याद्यर्थनिर्देशो व्यर्थ इति चेत् । मैवम्, 'प्रावृषष्ठप्' इत्याद्यपवादार्थं तदावश्यकत्वात् । ये तु निरपवादा अर्थनिर्देशाः 'कृतलब्धक्रीतकुशलाः' इत्यादयः, ते तु व्यर्था एवेति दिक् । संज्ञायां शरदः समुदायेन चेत्संज्ञा गम्यत इत्यर्थः । संज्ञायां किम्, शारदं सस्यम् । 'संज्ञायाम्' इत्येतत् 'कृतलब्ध - ' इत्येतत्पर्यन्तं केचिदनुवर्तयन्तीति वृत्तिकृत् । पूर्ववार्षिक इत्यादि । वर्षाणां पूर्वः, हेमन्तस्यापर इति विग्रहे 'पूर्वापराधरोत्तरम् -'
७