________________
प्रकरणम् २८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४०७
प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् । 'चिरपरुत्परारिभ्यस्त्रो वक्तव्यः' ( वा २८४२ ) । चिरत्नम् । परुनम् । परारिनम् । ' श्रमादिपश्चाड्डिमच् ' ( वा २८४४ ) । श्रग्रिमम् | आदिमम् । पश्चिमम् । 'अन्ताच्च' ( वा २८४५ ) अन्तिमम् । १३६२ विभाषा पूर्वाह्नापराद्वाभ्याम् ( ४-३ - २४ ) आभ्यां ट्यट्यलौ वा स्तः, तयोस्तुट् च । पते ठञ् । पूर्वाह्णेतनम् । श्रपराह्णेतनम् ।
७
'घकालतनेषु -' ( सू १७५ ) । इत्यलुक् । पूर्वाह्णः सोढोऽस्येति बिग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वाह्निकम् । श्रपराणिकम् । १३६६ तत्र जातः । ( ४-३-२५) सप्तमीसमर्थाजात इत्यर्थेऽणादयो घादयश्च स्युः । इति गम्यते । प्राह्णेतनमिति । प्राणः सोढोऽस्येति विग्रहः, ' तदस्य सोढम् ' इत्यर्थस्य निर्देक्ष्यमाणत्वात् । प्राह्ने जात इत्याद्यर्थे तु 'घकालतनेषु -' इति अलुकैव एदन्तत्वं सिद्धम् । प्रगेतनमिति । प्रगच्छतीति प्रगः तस्मिन् जातादिरित्यर्थः । यत्तु प्रगे इत्यव्ययमदन्तं प्रातरित्यर्थे तस्य त्वव्ययत्वादेव सिद्धम् । अव्ययेभ्य उदाहरति — दोषातनमिति । दोषेत्याकारान्तमव्ययं रात्रौ । दिवातनमिति । दिवेत्याकारान्तमव्ययमह्नि । चिरपरुदिति । चिर, परुत्, परारि एभ्यः नप्रत्यय इत्यर्थः । चिरत्नमिति । ट्युट्युलोरेव प्राप्तयोर्वचनम् । त्नप्रत्ययपक्षे मान्तत्वं न भवति, ट्युट्युलाभ्यां तस्य संनियोगशिष्टत्वात् । परुदिति परारीति चाव्ययं पूर्वस्मिन् पूर्वतरे च वत्सरे क्रमाद्वर्तते । श्रश्रादीति । वार्तिकमिदम् । अग्र, आदि, पश्चाद् एभ्यो डिमच् स्यादित्यर्थः । पश्चिममिति । 'अव्ययानां भमात्रे - ' इति टिलोपः । अन्ताच्च । इदमपि वार्तिकम् । विभाषा पूर्वाद्ध | पक्षे ठञिति । तथा सति न तुद्, तस्य ट्यट्यल्भ्यां संनियोगशिष्टत्वादिति भावः । तदेवं ‘राष्ट्रावार-' इत्यारभ्य एतदन्तैः सूत्रै राष्ट्रादिप्रकृतिविशेषेभ्यो घादयः प्रत्ययविशेषा अनुक्रान्ताः । अथ तेषां प्रत्ययानामर्थविशेषान् प्रकृतीनां च विभक्तिविशेषान् दर्शयितुमुपक्रमते । तत्र जातः । सप्तमीसमर्थादिति । सप्तम्यन्तात्कृत संधेरित्यर्थः । तत्रेत्यनेन सप्तम्यन्तस्यैव प्रथमानिर्दिष्टत्वादिति भावः । अरणादय इति । इत्यलुकापि सिद्धेः । चिरत्नमिति । सूत्रे चिरशब्दस्योपादानात् ट्यट्यलावपि स्तः । न चैवं सूत्रे चिरशब्दस्य प्रत्याख्यानं न सम्भवतीति वाच्यम्, मान्ताव्ययादेव ट्यट्यल्विधौ तत्सम्भवात् । परुत् पूर्वस्मिन् वत्सरे । परारि पूर्वतरे । श्रग्रादीति । डिमचो डित्त्वं स्पष्टार्थम् । तत्र जातः । ननु शेषे इत्यस्य लक्षणत्वोक्तेः 'चाक्षुषं रूपम्, श्रावणः शब्दः' इत्यादाविव जातादिष्वर्थेष्वणादयः सिद्धाः, अधिकाराच्च घादयो
6
७७