________________
४०६ ]
सिद्धान्तकौमुदी | [तद्धितेषु शैषिक
तुद् च ( ४-३-२३) सायमित्यादिभ्यश्चतुभ्र्योऽव्ययेभ्यश्च कालवाचिभ्यः व्ययलौ स्तः तयोस्तुट् च । तुटः प्रागनादेशः, 'अनद्यतने - ( सू २१८५ ) इत्यादिनिर्देशात् । सायंतनम् । चिरंतनम् । प्राह्नप्रगयो रेदन्तत्वं निपात्यते ।
७७
ऋत्वणि रूपम् । अत्र न तलोपः, तस्य एतत्सूत्र प्रतिपदोक्ताणा संनियोगशिष्टत्वादिति भावः । सायंचिरम् । चतुर्भ्य इति । सायं चिरं प्राह्णे प्रगे इत्येभ्य इत्यर्थः । कालवाचिभ्य इति । 'कालाट्ठञ्' इत्यतस्तदनुवृत्तेरिति भावः । तयोरिति । ट्युट्युलोरित्यर्थः । ननु सायंतनमित्यादौ कथं योरनादेशः । युवोरनाकौ ' इति ह्यङ्गाधिकारस्थम् । अङ्गात्परयोः यु वु इत्येतयोर नाकौ विधीयेते । प्रकृते च अन्तरङ्गत्वात्तुटि यु इत्यस्य अङ्गात्परत्वाभावादनादेशो न संभवति । नच ‘तदागमास्तद्ग्रहणेन गृह्यन्ते' इति न्यायेन त्यु इत्यस्यापि युग्रहणेन ग्रहणात्तस्याङ्गात् परत्वं निर्बाधमिति वाच्यम्, 'निर्दिश्यमास्यादेशा भवन्ति' इति परिभाषया येोरेवाऽनादेशप्राप्तेः तस्य च तुटा व्यवहितत्वादङ्गात्परत्वाभावादित्यत आह - तुटः प्रागनादेश इति । कुत इत्यत आह — अनद्यतने इत्यादि - निर्देशादिति । दिना 'घकालतनेषु -' इत्यत्र तनेति ग्राह्यम् । सायतनमिति । 'षो अन्तकर्मणि' इति धातोर्घञि सायशब्दो दिवसावसाने रूढः तस्माट्टयट्युलौ तयोरनादेशे तुट् प्रकृतर्मान्तत्वं निपात्यते । यत्तु सायमिति स्वरादिपठितमव्ययम्, तस्याव्ययत्वादेव ट्यट्यलौ सिद्धौ । चिरंतनमिति । अत्रापि प्रकृतेमन्तत्वं निपात्यते । श्रस्मादेव लिङ्गाच्चिरमित्यस्याव्ययेषु पठः अप्रामाणिक प्रत्ययतया अङ्गसंज्ञानिमित्तं यो युस्तस्य विधीयमानोऽनादेशो न स्यात् । न चैवं तुगेव क्रियतामिति वाच्यम्, तस्य पूर्वान्तत्वेन विसर्गाभावात्प्रातस्तनमित्यत्र सत्त्वाभावप्रसङ्गात्, अत आह— तुटः प्रागिति । इत्यादीति । आदिशब्देन 'घकालतनेषु -' इति ग्राह्यम् । सायंतनमिति । स्यतेर्घनि सायशब्दोऽकारान्तो दिवसावसाने रूढः, तस्य प्रत्ययसंनियोगेन मान्तत्वं निपात्यत इति वार्तिककृन्मतम् । भाष्यकृता तु 'मान्ताव्ययम्' इत्याश्रित्य सायंग्रहणं प्रत्याख्यातम् । न चैवं सायशब्दात्कालाटूनि अनिष्टरूप प्रसङ्गः । तस्य कालवाचित्वाभावादनभिधानादेत्याहुः । चिरंतनमिति । चिरशब्दस्यापि प्रत्ययसंनियोगेन मान्तता निपात्यत इति भावः । अत्र वदन्ति - स्वरादौ पाठादव्ययत्वादेव सिद्धे सूत्रे चिरमित्येतद्यर्थम् । न चादन्ताचिरशब्दाट्ठञ् स्यादिति वाच्यम्, नेन बाधादिति । एदन्तत्वमिति । प्राह्णः सोढोऽस्य प्राह्णेतनम् इत्याद्यर्थम् । तत्र हि सप्तमी नास्ति । जातार्थे 'घकालतनेषु -'