________________
प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४०५ प्रावृषेण्यः । १३८६ वर्षाभ्यष्ठक् (४-३-१८) वर्षासु साधु वार्षिकं वासः । 'कालारसाधुपुष्प्यत्पच्यमानेषु' (सू १४१८) इति साध्वर्थे । १३६० सर्वत्राण च तलोपश्च । (४-३-२२) हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पते ऋत्वण । हैमनम् , हैमन्तम् । १३६१ सायंचिरंप्रातेप्रगेऽव्ययेभ्यष्ट्यट्यलौ एण्यः । ऋत्वणोऽपवादः । प्रावृषेण्य इति । प्रावृड् वर्षर्तुः, तत्र भवादित्यर्थः । जाते तु ठप वक्ष्यते । प्रक्रियालाघवार्थ णकारोच्चारणम् । वर्षाभ्यष्टक् । तृतीयतों वर्षाशब्दो नित्यं बहुवचनान्तः, 'अप्सुमनःसमासिकतावर्षाणां बहुत्वम्' इति लिङ्गानुशासनसूत्रात् । 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः' इत्यमरः । वर्षाशब्दाजाताद्यर्थे ठगित्यर्थः । वर्षासु साध्विति । हितकारीत्यर्थः । ननु 'तत्र साधुः' इति साध्वधिकारस्य शेषाधिकारबहिर्भूतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत श्राहकालादिति। साध्वर्थ इति । साध्वर्थेऽपि ठगित्यर्थः। अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः। सर्वत्राएच । छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदे चेत्यर्थः । 'हेमन्ताच्च' इति पूर्वसूत्राद् हेमन्तादित्यनुवर्तते। तदाहहेमन्तादित्यादिना। ननु 'सर्वत्राण तलोपश्च' इत्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह-चकारादिति । हैमनमिति। हेमन्तेत्यत्र तकारात्प्राग नकारस्यानुस्वारपरसवर्णी स्थितौ। तत्र तकाराकारसमुदायस्य लोप इति पक्षे अनिति प्रकृतिभावान्न टिलोपः । तकारस्यैव लोप इति पक्षे तु अकारस्य 'यस्येति च' इति लोपे तस्य भाभीयत्वेनासिद्धत्वात् स्थानिवत्त्वाद्वा न टिलोपः। हैमन्तमिति । इत्यत्र णकारश्रवणार्थमपि तत् । ण्यन्तात्विपि टिलोपणिलोपयलोपाः । सर्वत्राएच । हेमन्तादिति । एतच्च 'हेमन्ताच्च' इत्यतोऽनुवृत्तमिति भावः । हैमनमिति । अकारविशिष्टस्य तशब्दस्य लोपे 'अन्' इति प्रकृतिभावाद् 'नस्तद्धिते' इति टिलोपो न । तकारस्यैव लोप इति पक्षे तु 'यस्येति च' इत्यल्लोपस्याभीयत्वेनासिद्धत्वात्स्थानिवद्भावाद्वा टिलोपो नेति बोध्यम् । हैमन्तमिति । ऋत्वणि तकारलोयो न भवति, तस्य 'सर्वत्राण-' इति प्रतिपदोक्तेन प्रणा संनियोगशिष्टत्वात् । एतच्च प्रत्याख्यातं भाष्ये । तथाहि हेमन्तपर्यायो हेमन्शब्दोप्यस्ति 'हेमन्नागनीगन्ति कौँ' इत्यादिप्रयोगात् , ततश्च हेमन्हेमन्तशब्दाभ्यामृत्वणि हैमनं हेमन्तमिति रूपद्वयं सिद्धम् । छन्दसि तु 'हेमन्ताच्च' इति ठा हैमन्तिकमिति तृतीयमपि रूपं सिध्यति । न च विशेषविहितेन ठा अणो बाधः शङ्कयः, छन्दसि सर्वविधीनां वैकल्पिकत्वात् । वृत्तिकृता तु 'हेमन्ताच' इति सूत्रे सर्वत्रग्रहणमपकृष्य लोकेऽपि हैमन्तिकमिति खीकृतम् । सायंचिरं । नन्वन्तरजत्वात्प्रथमं तुटि ‘मृत्युः' इत्यादाविव त्युशब्दस्य