________________
४०४ ]
सिद्धान्तकौमुदी ।
[तद्धितेषु शैषिक
>
स्वस्ति, स्वर्, स्फ्यकृत् स्वादु, मृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् । १३८७ सन्धिवेलाद्यूतुनक्षत्रेभ्योऽण् । ( ४-३-१६ ) सन्धिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, सन्ध्या, अमावस्या, त्रयोदशी, चतुर्दशी, पौर्णमासी, प्रतिपत् । ' संवत्सरात्फलपर्वणोः' (ग सू १२ ) । सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् । १३८८ प्रावृष एरायः (४-३-१७) तुटि टकार इत् । उकार उच्चारणार्थः । द्वारादीनां च । 'न य्वाभ्याम् -' इति सूत्रं 'पदान्ताभ्याम्' इतिवर्जमनुवर्तते, 'मृजेर्वृद्धिः' इत्यतो 'वृद्धिः' इति च, तदाहएषां न वृद्धिरैजागमश्चेति । द्वारादीनां नादिवृद्धिः, किन्तु यकारवकाराभ्यां पूर्वी ऐजागमौ स्त इत्यर्थः । अत्र यकारवकारयोरपदान्तत्वाद् 'न य्वाभ्यां पदान्ताभ्याम्-' इत्यप्राप्ते वचनमिदम् । शौवस्तिकमिति । श्वस् इत्यव्ययाद् जाताद्यर्थे ठञ इकादेशे तुडागमे वकारात्पूर्वमैजागमेन चौकारः । अकारस्य न वृद्धिः । संधिवेला । कालवृत्तिभ्य इति । कालाट्ठञ्' इत्यतस्तदनुवृत्तेरिति भावः । ठञोऽपवादः । तैषमिति । तिष्ये भवादीत्यर्थः । 'तिष्यपुष्ययोर्नक्षत्राणि -' इति यलोपः । तिष्ये जात इत्यर्थे ' श्रविष्ठाफल्गुनी-' इति लुग्वक्ष्यते । सन्धिवेलादिगणं पठतिसंधिवेलेत्यादि । संवत्सरात्फलपर्वगोरिति । गणसूत्रमिदम् । प्रावृष विकल्पेन विहितः, आभ्यां मुक्के व्यय्यलावपि स्त एव । शौवस्तिकमिति । नन्वन्तरङ्गत्वात् तुटि ठस्य प्रत्ययादित्वाभावात्कर्मठ इत्यत्र ठच इवेकादेशो न स्यात् । न च परत्वादिकादेशे तस्य तुडति वाच्यम्, आदेशात्प्रागेवान्तरङ्गत्वात्तुरः प्रवृत्तेः । इकादेशस्य त्वाङ्गत्वेन बहिरङ्गत्वात् । सूत्रभङ्गेन तुकि हि क्रियमाणे तु 'इसुमुक्तान्तात् -' इति कादेशप्रसङ्ग इति चेत् । सत्यम्, वुञ्छणादिषु ठचश्चित्त्वेन 'एकादेशोऽन्तरनेभ्यो बलवान्' इति ज्ञापितत्वात् । अन्यथा प्रत्ययाद्युदात्तत्वे कृते एकादेशः स्यादिति किं ठचश्चित्त्वेन । कृते त्विकादेशे प्रत्ययस्वरबाधनाय चित्त्वं प्रयुज्यत इति मनोरमायां स्थितम् । संधिवेला । ग्रहणं तु छबाधनार्थम् । अन्यथा 'सन्धिवेलादिभ्यो यथाविहितं प्रत्ययाः स्युः' इत्युक्ते पौर्णमासीशब्दाद् 'वृद्धाच्छः ' स्यात् । वचनं तु ठञो बाधनाय स्यादिति भावः । तैषमिति । तिष्याद्भवादावण् । जातार्थे तु 'श्रविष्ठाफल्गुनी-' इति लुक् स्यात् । 'सूर्यतिष्य -' इत्यत्र 'तिष्यपुष्ययोर्नक्षत्राणि - इति वचनाद्यलोपः । प्रावृष एरायः । ऋत्वणोऽपवादः । प्रवर्षतीति प्रावृद्, 'नहिवृति - ' इति दीर्घः । तत्र भवः । जाते तु ठवं वक्ष्यति । 'रषाभ्याम् -' इति सिद्धे प्रक्रियालाघवार्थं गकारोच्चारणमित्याहुः किंच प्रावृषेण्यमाचक्षाणः प्रावृषेण