________________
प्रकरणम् २८ ] बालमनोरमा तत्त्वबोधिनीसहिता। [४०३ तमसो निषिद्धये' इति कालिदासः। 'अनुदितौषसरागा' इति भारविः । समानकालीनं प्राकालीनमित्यादि च । • अपभ्रंशा एवैते' इति प्रामाणिकाः । 'तत्र जातः' (सू १३६३) इति यावत्कालाधिकारः । १३८२ श्राद्ध शरदः। (४-३-१२) ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् । १३८३ विभाषा रोगातपयोः । (४-३-१३) शादिकः शारदो वा रोग प्रातपो वा । 'एतयोः' किम्-शारदं दधि।१३८४ निशाप्रदोषाभ्यां च (४-३-१४) वा ठञ् स्यात् नैशिकम् , नैशम् । प्रादोषिकम्, प्रादोषम् । १३८५ श्वसस्तुद् च । (४-३-१५) श्वस्शब्दाठ्ठञ् वा स्यात् । तस्य तुडागमश्च । १३८६ द्वारादीनां च । (७-३-४) द्वार, स्वर, स्वाध्याय, व्यल्कश, 'अव्ययानां भमात्रे-' इति टिलोपः । 'सायंचिरम् -' इति ट्यट्यलौ तु न भवतः, 'नस्तद्धिते' इति सूत्रभाष्ये तथा प्रयोगदर्शनात् । शार्वरस्येति । शार्वरिकस्येति भाव्यमिति भावः । अनुदितौषसेति । औषसिकेति भाव्यमिति भावः । समानेति । समानकालिकं प्राक्कालिकमिति भाव्यमित्यर्थः । प्रामाणिका इति । केचित्तु अमुकः पुरतः परेयुरित्यादिवद् एतेऽपि शब्दा अव्युत्पन्नाः, पृषोदरादयो वा साधव इत्याहुः । इति यावदिति । व्याख्यानादिति भावः । श्राद्धे शरदः । ठञ् स्यादिति । शेषपूरणमिदम् । ननु 'काला' इत्येव सिद्धे किमर्थमिदमित्यत आह-ऋत्वण इति । 'संधिवेलातुनक्षत्रेभ्योऽण्' इति वक्ष्यमाणस्येत्यर्थः । शारदिकमिति । शरदि ऋतौ भवमित्यर्थः । शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम् । विभाषा रोगातपयोः । 'ठञ्' इति 'शरद' इति चानुवर्तते । शारदं दधीति । ऋत्वणिति भावः । निशाप्रदोषाभ्यां च। वा ठञ् स्यादिति । शेषपूरणम् । 'काला ट्ठञ्' इति नित्यं प्राप्ते विकल्पोऽयम् । श्वसस्तुद् च । तस्येति । प्रत्ययस्येत्यर्थः । मुक्तार्थे न प्रमाणमिति वाच्यम् , पुष्यादिसमीपस्थचन्द्रमसा युक्त काले पुष्यादिशब्दानां गौणत्वात् । 'लुबविशेषे' इति शास्त्रमपि गौणवृत्तित्वान्वाख्यापकमेवेति दिक् । एवं स्थिते 'कालवाचिभ्यः' इति मूलस्य 'कालप्रतिपादकेभ्यः' इति फलितोऽर्थः । श्राद्धमिति । भक्त्या क्रियमाणं पित्र्यं कर्मेत्यर्थः । 'प्रज्ञाश्रद्धार्चाभ्योऽणः' इति मत्वर्थीयेन व्युत्पादितः श्रद्धावान्पुरुषस्तु न गृह्यते, अनभिधानात् । श्वसस्तुद् च । विभाषेत्यनुवर्तनादाह-ठञ् वा स्यादिति । 'ऐषमो ह्यः-' इत्यादिना त्यबपि
१ क्वचित् 'स्वानाम' शब्दपाठोऽप्यत्रोपलभ्यते । क्वचिच्च 'स्वाध्याय' शब्दस्यापि पाठो नास्ति।