________________
४०२]
सिद्धान्तकौमुदी। तद्धितेषु शैषिकमध्यं दारु । नातिहस्वं नातिदीर्घमित्यर्थः । १३८० द्वीपादनुसमुद्रं यञ् । (४-३-१०) समुद्रस्य समीपे यो द्वीपस्तद्विषयाद् द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् , द्वैप्या। १३८१ कालाट्ठञ् । (४-३-११) कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि 'शार्वरस्य उत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीये 'अनाप्तश्चतूरात्रोऽतिरिक्तः षडात्रोऽथवा एष संप्रति यज्ञो यत्पञ्चरात्रः' इत्यत्र तथा दर्शनात् । पञ्चरात्रो न न्यूनो नाप्यतिरिक्तः, सम इत्यर्थः। संप्रतिशब्दात् स्वार्थे विनयादित्वानि सांप्रतिकम् । प्रज्ञादित्वात् स्वार्थे अणि तु सांप्रतमित्यपि भवति । 'एतर्हि संप्रति' इति को शादिदानीमित्यर्थे ऽपि । प्रकृते तु साम्यं विवक्षितम् । द्वीपादनु । अनुसमुद्रमिति सामीप्ये अव्ययीभावः । अनुसमुद्रमिति सप्तम्यन्तम् , विद्यमानादित्यध्याहायेम्, तदाह--समुद्रस्य समीप इति । द्वैप्येति । 'यजश्च' इति ङीप् तु न, अनपत्याधिकारस्थाद् नेति तन्निषेधात्। कालाट ठञ् । 'कालशब्दस्यैव न ग्रहणम् , किन्तु कालशब्दस्य कालविशेषवाचकानां च ग्रहणम्' इति तदस्य परिमाणम्' 'संख्यायाः-' इति सूत्रभाष्ये स्पष्टम् । तदाह-कालवाचिभ्य इति सायंप्रातिकः पौनःपुनिक इति । उत्कर्षेत्यादि । न्याय्ये विद्यमान एव संप्रतिशब्दोऽत्र गृह्यत इति भावः । द्वीपादनु । समुद्रं समया अनुसमुद्रम् । 'अनुर्यत्समया' इत्यव्ययीभावः । सप्तम्यन्तं चेदम् । विद्यमानक्रियाद्वारा द्वीपविशेषणमित्याशयेनाह-समुद्रसमीपे यो द्वीप इति। कच्छाद्यणो मनुष्यबुञश्चापवादोऽयम् । अनुसमुद्रं किम् , द्वैपमन्यत् । कच्छाद्यण् । द्वैपको मनुष्यः, 'मनुष्यतत्स्थयोः-' इति वुञ् । द्वैप्येति 'यत्रश्च' इति कीन्न भवति । 'अपत्याधिकारस्थादेव यत्रो डीप्' इति प्रागेवोक्तत्वात् । कालाटुञ् । स्वरूपस्यैव न ग्रहणं संधिवलादिसूत्रेण संधिवेलात्रयोदशीचतुर्दशीनभृतिभ्योऽवृद्धेभ्योऽपि ठबाधनार्थमणिवधानात् । किंतु सर्वेषामपि कालवाचिनां ग्रहणमित्याशयेनाहकालवाचिभ्य इति । यत्तु स्वरूपस्य पर्यायाणां च न ग्रहणमिति पदमञ्जर्यादिषु स्थितम् , तदसत् 'कालिकः सम्बन्धः, कालिकी व्याप्तिः' इत्यादिप्रयोगानापत्तेः। न च विशेषाणामेव ग्रहणे सन्धिवेलादिसूत्रेण सन्धिवेलादिभ्योऽरिवधानं ज्ञापकमिति वाच्यम् , तस्य स्वरूपमात्रग्रहणनिरासकत्वेनापि साफल्यात् । गौणमुख्यन्यायस्त्विह नाश्रीयते । तेन कदम्बपुष्पसाहचर्यात्कदम्बपुष्पः कालः, व्रीहिपलालसाहचर्याद् व्रीहिपलालः कालः, तत्र भवं कादम्बपुष्पिकं त्रैहिपलालिकमित्याकरः । अत्र हि प्रमाणं सन्धिवेलादिसूत्रे अनेन कालग्रहणेन नक्षत्राणां विशेषणमेवेत्याहुः । न च पुष्पादिशब्दानां कालो मुख्य एवार्थः, 'लुबविशेष' इति व्युत्पादनात् । तथा च कालविशेषण