________________
प्रकरणम् २८] बालमनोरमा तत्त्वबोधिनीसहिता। [४०१ उत्तरपदे च । त्वदीयः । मदीयः । उत्तरपदे तु स्वत्पुत्रः, मत्पुत्रः । १३७४ अर्धाद्यत् । (४-३-४) अर्ध्यः । १३७५ परावराधमोत्तमपूर्वाश्च । (४-३-५) पराय॑म् । अवराय॑म् । अधमाय॑म् । उत्तमाय॑म् । १३७६ दिक्पूर्वपदादठश्च । (४-३-६) चाद्यत् । पौर्वाधिकम्, पूर्वाय॑म् । १३७७ ग्रामजनपदैकदेशादौ । (४-३-७) ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादठो स्तः । इमे अस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः, पौर्वाधिकाः । ग्रामस्य पूर्वस्मिन्नर्धे भवा इति तद्धितार्थे समासः । ठग्रहणं स्पष्टार्थम् । प्रत्युक्ने यतोऽप्यनुकर्षः सम्भाव्येत । १३७८ मध्यान्मः । (४-३-८) मध्यमः। १३७६ अ सांप्रतिके । (४-३-६) मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । वक्ष्यत इति शेषः । प्रत्ययोत्तरपदयोश्च । साप्तमिकमिदम् । त्वमावेकवचने इत्यनुवर्तते । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्त. स्येत्यधिकृतम् , तदाह-मपर्यन्तयोरित्यादि । त्वदीयः। मदीय इति।छे सुब्लुकि तवममयोनिवृत्ती मपर्यन्तयोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाभावान्न शेषे लोपः। उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्र इत्युदाहरणम् । अर्धाद्यत् । अर्ध्य इति । अर्धे जातादिरित्यर्थः । 'सपूर्वपदाठ्ठञ् वाच्यः' इति वार्तिकं भाष्ये स्थितम्। बालेयार्धिकः । परावर । अर्धाद्यदिति शेषः । अवरशब्दो दन्तोष्ठयवकारमध्यः । दिक्पूर्वपदाद ठञ् च । अर्धादित्येव परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव, विशिष्य विहितत्वात् । ग्रामजनपद । ननु अञ् चेत्येतावतैव चकारात् ठोऽनुकर्षसिद्धेः ठग्रहणं व्यर्थमित्यत आह-ठग्रहणमिति । ननु अञ् चेत्युक्तेऽपि चकाराट्ठोऽनुकर्षः स्पष्ट एवेत्यत आह-अञ् चेत्युक्त इत्यादि । मध्यान्मः। स्पष्टम् । असांप्रतिके । अ इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह-मध्यशब्दादित्यादि । संप्रतीत्यव्ययम् इति । परावरा । 'परावराधमोत्तमेभ्यः' इत्येव वक्तव्ये पूर्वग्रहणं पूर्वविप्रतिषेध. सूचनार्थम् । तेन दिक्शब्दयोः परावरयोरर्धशब्देन समासे उत्तरसूत्रेण प्राप्तावपि ठव्यतौ बाधित्वा यदेव भवति । दिक् । पूर्वपदग्रहणं स्वरूपविधिनिरासार्थमित्याहुः । असांप्रतिके । सम्प्रतीत्यव्ययं न्याय्ये वर्तते 'अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रः स वा एष सम्प्रति यज्ञो यत्पञ्चरात्रः' इत्यत्र तथा दर्शनात् । न न्यूनो नातिरिक्तः सम इत्यर्थः । इदानीमित्यर्थे तु प्रसिद्धमेव । 'एतहिं संप्रतीदानीम्' इत्यमरात् । ततः प्रज्ञादित्वात्स्वार्थेऽण, विनयादित्वात्स्वार्थे ठगपि । तेन सांप्रतं सांप्रतिकमिति पर्यायौ।
LETTERYTHRE