________________
४०० ]
सिद्धान्तकौमुदी ।
[तद्धितेषु शैषिक
युवयोः युष्माकं वा श्रयं युष्मदीयः । श्रस्मदीयः । १३७१ तस्मिन्नणि च युष्माकास्माकौ । ( ४-३ - २) युष्मदस्मदोरेतावादेशौ स्तः, खम्यणि च । यौष्माकीणः । श्रस्माकीनः । यौष्माकः । श्रास्माकः । १३७२ तवकममकावेकवचने । (४-३-३ ) एकार्थवाचिनो युष्मदस्मदोस्तवकममकौ स्तः खन्यणि च । तावकीनः, तावकः । मामकीनः, मामकः । छे तु । १३७३ प्रत्ययोत्तरपदयोश्च । ( ७-२-६८ ) मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये
भावः । अत्र 'युष्मदस्मदो:' इति योगो विभज्यते । श्रभ्यां छो भवतीत्यर्थः । 'खञ् च' इति योगान्तरम् । श्रभ्यां खञ् च भवतीत्यर्थः 'अन्यतरस्याम्' इति योगान्तरम् । आभ्यां छखनौ वा स्तः, पक्षेऽणित्यर्थः । अतो न यथासंख्यमिति भाष्ये स्पष्टम् । युष्मदीय इति । द्विवचनान्ताद्बहुवचनान्नाच्च छः । ईयादेशः । ब्लुकि युवादेशस्य निवृत्तिः, तस्य विभक्तौ परे विधानात् । प्रकृत्यर्थैकत्वे विभक्तेलुप्तत्वेऽपि त्वादशो वक्ष्यते । श्रस्मदीय इति । श्रावयोरस्माकं वा श्रयमित्यर्थः । अथ खत्रि अणि च विशेषमाह -- तस्मिन्नाणि च । पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते । तदाह - खञि अणि चेति । अत्र स्थानिनोरा देशयोश्च यथासंख्यम्, न तु परनिमित्तयोः, 'तस्मिन्नणि' इति व्यस्तनिर्देशात् । पौष्माकीण इति । युवयोर्युष्माकं वा श्रयमिति विग्रहः । खञ्, ईनादेशः, युष्माकादेशः, आदिवृद्धिः, त्वम् । आस्माकीन इति । आवयोरस्माकं वा यमिति विग्रहः । अणि उदाहरति
,
कः, स्मा इति । तवकममकौ । 'एकवचन' इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम् उक्तिः एकवचनम् । एकस्यो कौ व्याप्रियमाणयोरिति लभ्यते । तदाह—एकार्थवाचिनोरिति । छे त्विति । एकार्थवृत्तयोर्विशेषो दिति भावः । तथा चैते त्रयः प्रत्यया इति वैषम्याद्यथासंख्यं न भवन्तीति केचित् । मनोरमायां तु यथासंख्यनिवारणाय योगविभागः कृतः, तथा हि 'युष्मदस्मदोरन्यतरस्याम् । श्राभ्यां छो वा स्यात् । ' त्यदादीनि च' इति वृद्धत्वान्नित्ये छे प्राप्ते विकल्पोऽयम् । ततः ‘खञ्च' । एवमुत्तरसूत्रेऽपि योगविभागो योध्यः । तेन आदेशयोः खञराभ्यां यथासंख्यं नेत्यादि । युवयोरित्यादि । एकवचने तवकममकादेशविधानादेकवचनान्तेन विग्रहोत्र न कृतः । तस्मिन्नणि च । तस्मिन्निति साक्षाद्विहितः खम् निर्दिश्यते, न तु चानुकृष्ट । निमित्तयो दिशौ प्रति यथासंख्यं तु न भवति 'खञणोः -' इति वक्तव्ये पृथग्विभक्लिनिर्देशसामर्थ्यात् । स्थान्यादेशयोस्तु इष्यत एव तत् । तवक । इह पूर्ववदेव निमित्तयोः खञणोरादेशौ प्रति यथासंख्यं न भवति, किंतु स्थान्यादेशयोरेवेत्याशयेनोदाहरति - तावकीनः । मामकीन