________________
प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसंहिता। [३६६ स्खोपधाश्च वृद्धादेशवाचिनः छः स्यात् । ब्राह्मणको नाम जनपदः, यत्र ब्राह्मणा श्रायुधजीविनः, तत्र जातो ब्राह्मणकीयः। शाल्मलिकीयः । अयोमुखीयः । १३६६ कन्थापलदनगरग्रामहदोत्तरपदात् । (४-२-१४२) कन्थादिपञ्चकोत्तरपदादेशवाचिनो वृद्धाच्छः स्यात् । उम्ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिमामीयम् । दातिहदीयम् । १३६७ पर्वताञ्च । (४-२-१४३) पर्वतीयः । १३६८ विभाषाउमनुष्ये । (४-२-१४४) मनुष्यभिनेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण । पर्वतीयानि, पार्वतानि वा फलानि । अमनुष्ये किम्-पर्वतीयो मनुष्यः । १३६६ कृकणपर्णाद्भारद्वाजे । (४-२-१४५) भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम्-कार्कणम् । पार्णम् । १३७० युष्मदस्मदोरन्यतरस्यां खञ् च । (४-३-१) चाच्छः । पक्षेऽण् । पधात् । ब्राह्मणकीय इति । कोपधाणोऽपवादः छः । शाल्मलिकीय इति । शाल्मलिको नाम देशः । तत्र भव इत्यर्थः । इकान्तोदाहरणमिदम् । कोपधाणपवादः। अयोमुखीय इति । 'बाहीकमामेभ्यश्च' इति ठठियोरपवादः छः । कन्थापलद । ठठिादेरपवाद इति। नगरान्ते 'रोपधेतोः-' इति वुओऽपवादः । इतरत्र 'बाहीकग्रामेभ्यश्च' इति ठठियोरपवाद इति विवेकः । पर्वताच्च । इत्यादि स्पष्टंम् । युष्मदस्मदोरन्यतरस्यां खञ् च । युष्मदस्मच्छब्दयोरिह शब्द. स्वरूपपरत्वात् 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषो न भवति । पञ्चम्यर्थे षष्ठी । युष्मच्छब्दादस्मच्छब्दाच्च जाताद्यर्थेषु खञ् स्यादित्यर्थः। चाच्छः । गर्तोत्तरपदादित्यधिकृतः छः चकारेण समुच्चीयत इत्यर्थः । पक्षेऽणिति । अन्यतरस्यांग्रहणादिति अविनाभूतमित्यर्थः । वृद्धादके । ब्राह्मणकीय इति । 'कोपधादण्' इत्यण प्राप्तः । आयोमुखीय इति । वाहीकग्रामलक्षणौ ठनिठाविह प्राप्तौ । उञ्जिठादेरिति। श्रादिशब्देन 'रोपधेतोः-' इत्यादिना प्राप्तस्य वुनः । पर्वतीय इति । 'तत्र जन्यं रघो?रं पार्वतीयैर्गणैरभूत्' इत्यत्र तु 'पर्वतीयस्य राज्ञ इमे' इत्यर्थे छान्तादण् । कृकण । भारद्वाजशब्दोऽत्र देशवचनः, स च न प्रत्ययार्थः, किं तु प्रकृतिविशेषणमित्याह-भाद्वाजदेशेत्यादिना । युष्मदस्मदोः। 'त्यदादीनि च' इति वृद्धत्वानित्ये छ प्राप्ते खत्रणोरपि विधानार्थमिदम् । पक्षे अणिति । अन्यतरस्यांग्रहणा
१ इह मूले टीकायां च 'इति चतुर्थस्य द्वितीयः पादः' इत्याद्यधिकं दृश्यते क, ख. पुस्तकयोः, परं प्रथमपादान्ते तथा लेखादर्शनान्मूलपुस्तकान्तरेष्वदर्शनाच सोऽत्रोपेक्षितः।