________________
३६८ ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिकछः स्यात् । गहीयः । 'मुखपार्श्वतसोर्लोपश्च' ( ग सू ७८ ) । मुखतीयम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् । 'कुग्जनस्य परस्य च' (ग सू ८९ ) । जनकीयम् । परकीयम् । 'देवस्य च' (ग सू ६०) । देवकीयम् । 'स्वस्य च स्वकीयम् । 'वेणुकादिभ्यश्छण्वाच्यः' (ग सू ११)। वैणुकीयम् । वैत्रकीयम् । श्रौत्तरपदकीयम् । १३६३ प्राचां कटादेः । (४-२-१३६) प्राग्देशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् । १३६४ राज्ञः क च। (४-२-१४०) वृद्धत्वाच्छे सिद्ध तत्संनियोगेन कादेशमानं विधीयते, राजकीयम् । १३६५ वृद्धादकेकान्तखोपधात् । (४-२-१४१) 'अक' 'इक' एतदन्तादेशवाचित्वाभावाद् 'गर्वोत्तरपदात्' इति सिद्धे उत्तरपदग्रहणं व्यर्थमित्यत आहउत्तरपदग्रहणमिति । गहादिभ्यश्च । गहीय इति गहो देशविशेषः । मुखपार्वेति । गहादिगणसूत्रम् । मुखपार्वति लुप्तषष्टीकं परम् । तसन्तयोरेतयोरन्त्यस्य लोपश्च । चाच्छः । असंभवादन जनपदस्येति न सम्बध्य ।। कुग्जनस्येति। गणसूत्रमिदम् । जनशब्दस्य परशब्दस्य च कुगागमः स्यात् , पाच्छः । आत्रापि देश इति न सम्बध्यते । देवस्य च । इदमपि गणसूत्रम् । चात्कुक् छश्च । 'देवाद्याऔ' इत्यस्यापवादः । देवानुग्रह इति भाष्यप्रयोगाद्देवमित्यपि साधु । स्वकीयमिति । गहादित्वाच्छः कुक्च । स्वशब्दोऽपि गहादिः, आगमशास्त्रा नेत्यत्वात् स्वीयम् । प्राचां कटादेः। कटनगरीयमिति । कटनगरो नाम प्राव्यो देशः। राज्ञः क च । राजन्शब्दात् छः स्यात् , ककारश्चान्तादेशः । सुद्धादकेकान्तखो. स्यात् । पूर्वपक्षादिशब्देभ्यस्तु देशवाचित्वाभावेऽपि पाठसामर्थ्याच्छः । मुखपार्श्वतसोरिति । गणसूत्रमिदम् । सप्तम्यन्ताभ्यामाभ्यामाद्यादित्वात्तसिः । मुखतीयमिति । मुखे जातमित्याद्यर्थे तसन्ताच्छः । 'अलोऽन्त्यस्य' इति तसः सकारस्य लोपे 'यस्येति च' इत्यकारलोपः । कुग्जनस्येति । इदमपि गणसूत्रम् । स्वकीयमिति। स्वार्थिककन्नन्तात्स्वशब्दाद्गहादेराकृतिगणत्वाच्छः, देशवाचित्वा भावेऽपि पूर्वपक्षादिवद्वोध्यः । अतएव लुब्योगाप्रख्यानादिति सूत्रे 'न हि खक यस्यैव प्रत्याख्यानम्' इति न्यासकारोक्तिः संगच्छते । केवलात्स्वशब्दादणेव । सौवम् । एतच्च 'द्वारादीनां च' इत्यत्र आकरे उदाहृतम् । खीयभित्यत्र तु 'प्राक्क्रीताच्छः' । अन्तरशब्दात्तु गहादित्वाच्छे तदन्तेन नशब्दस्य समासे स्वार्थे कनि च 'नान्तरीयकम्' इति भवति ।
१ स्वार्थिककन्नन्तात्स्वशब्दाद् गहादेराकृतिगणत्वाच्छः–इति मनोरमातत्त्वबोधिन्यौ । गहादौ तु 'स्वस्य च' इति नोपलभ्यते ।