________________
प्रकणरम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६७ १३५४ विभाषा कुरुयुगन्धराभ्याम् । (४-२-१३०) वुञ्। कौरवकः, कौरवः । यौगन्धरकः, यौगन्धरः । १३५५ मद्रवृज्योः कन् । (४-२-१३१) जनपदवुमोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः । १३५६ कोपधादण् । (४-२-१३२) माहिषिकः । १३५७ कच्छादिभ्यश्च । (४-२-१३३) देशवाचिभ्योऽण् । वुजादेरपवादः । कान्छः । सैन्धवः । १३५८ मनुष्यतत्स्थयोर्बुञ् । (४-२-१३४) कच्छाधणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । काच्छकं हसितम् । 'मनुष्य' इति किम्-काच्छो गौः । १३५६ अपदातौ साल्वात् । (४-२-१३५) साल्वशब्दस्य कच्छादित्वाद् वुनि सिद्धे नियमार्थमिदम् , अपदातावेवेति । साल्वको ब्राह्मणः । 'प्रपदातौ' किम्-साल्वः पदातिव्रजति । १३६० गोयवाग्योश्च । (४-२-१३६) साल्वाद् वुन् । कच्छाधणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् । १३६१ गोत्तरपदाच्छः।(४-२-१३७) देशे । अणोऽपवादः । वृकगीयम् । उत्तरपदग्रहणं बहुपूर्वनिरासार्थम् । १३६२ गहादिभ्यश्च । (४-२-१३८) गोमयेष्विति । वार्तिकमिदम् । विभाषा कुरु । कुरुयुगन्धरौ जनपदौ । अवृद्धाभ्यामपि ताभ्याम् 'अवृद्धादपि-' इति नित्यं प्राप्ते विकल्पः मद्रवृज्योः कन् । मद्रो वृजिश्व जनपदविशेषः । जनपदवुनोऽपवादः । कोपधादण् । माहिषिक इति । महिषिको नाम जनपदः, तत्र भव इत्यर्थः । प्रस्थोत्तरपद-' इत्यादिना सिद्धे जनपदवुञ्बाधनार्थमिदम् । कच्छादिभ्यश्च । कान्छ इति । अत्र वुओऽपवादोऽण् । सैन्धव इति । ओर्देशे ठोऽपवादः । मनुष्यतत्स्थयोर्बु । कच्छादिभ्य इत्यनुवर्तते । तदाह-कच्छादीति । अपदातौ साल्वात् । नियमार्थमिति । साल्वाचेदपदातावेवेति नियमार्थमित्यर्थः । गोयवाग्वोश्च । जातत्वादिना विवक्षितयोरित्यर्थः । गर्तोत्तरपदाच्छः। देश इति । शेषपूरणम् । देशवाचिन इति यावत् । वृकगीयमिति । वृकगर्तो नाम देशः । तत्र भव इत्यर्थः । ननु गर्ताच्छ इत्येतावतैव केवलगर्तशब्दस्य विभाषा कुरु । कुरुशब्दः कच्छादिषु पठ्यते, तत्सामर्थ्यात्पक्षेऽण सिद्ध इति परिशेषाद्विभाषाग्रहणं युगन्धराथेमेव । 'अवृद्धादपि-' इति नित्यप्राप्तो वुअनेन विकल्प्यते । मनुष्यतत्स्थयोस्तु परत्वान्नित्य एव वुञ् । कौरवको मनुष्यः । कौरवकमस्य हसितम् । एतदर्थमेवास्य कच्छादौ पाठः । अन्यथा अनयैव विभाषया वुअणोः सिद्धौ किं तेनेति भावः । सैन्धव इति । 'ओर्देशे-' इति ठञ् प्राप्तः । वुझि सिद्धे इति । 'मनुष्यतत्स्थयोः-' इत्यनेन । गहादिभ्यश्च । एभ्यो देशवाचिभ्यश्छः