________________
३६६ ]
सिद्धान्तकौमुदी। तद्धितेषु शैषिकविषयात् । (४-२-१२५) अवृद्धाद् वृद्धाच जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिका बुब्स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । श्रवृद्धाजनपदात् , प्राङ्गकः । श्रवृद्धाजनपदावधेः, आजमीढकः । वृद्धाजनपदात्, दार्वकः वृद्धाजनपदावधेः, कालअरकः । 'विषय' ग्रहणं किम्-एकशेषेण बहुत्वे मा भूत्-वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः । १३५० कच्छाग्निवक्त्रवर्तोत्तरपदात् । (४-२-१२६ ) देशवाचिनो वृद्धादवृद्धाश्च वुज्स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः । १३५१ धूमादिभ्यश्च । (४-२-१२७) देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः । १३५२ नगरात्कुत्सनप्रावीण्ययोः। (४-२-१२८) नगरशब्दाद् वुल्स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । 'कुत्सन' इति किम्-नागरा ब्राह्मणाः । १३५३ अरण्यान्मनुष्ये । (४-२-१२६ ) वुञ् । 'अरण्याएणः' (वा २७८२) इत्यस्यापवादः । 'पथ्यध्यायन्यायविहारमनुष्यहस्तिध्विति वाच्यम्' ( वा २८१६) श्रारण्यकः पन्थाः अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । 'वा गोमयषु' (वा २८२०) । श्रारण्यका प्रारण्या वा गोमयाः । विषयात् । अवृद्धाजनपदादिति । उदाह्रियत इति शेषः । आजमीढकइति । अजमीढेषु भव इत्यर्थः । अजमीढाख्यो जनपदः कस्यचिजनपदस्यावधिः । वृद्धाजनपदादिति । उदाह्रियत इति शेषः । दार्वक इति । दार्वा इति बहुवचनान्तो जनपदविशेषे वर्तते । तत्र भव इत्यर्थः । कालारक इति । कलारेषु भव इत्यर्थः । कच्छाग्नि । कच्छ, अग्नि, वक्त्र, वर्त एतदुत्तरपदादित्यर्थः । शेषपूरणेन सूत्रं व्याचष्टे-देशवाचिन इति । छाणोरप्वादः । दारुकच्छक इति । दारुकच्छे भव इत्यर्थः । काण्डाग्नक इति । काण्डाग्नौ भव इत्यर्थः । अकादेश 'यस्येति च' इति इकारलोपः। सैन्धुवक्त्रक इति । सिन्धुवक्त्रे भव इत्यर्थः । बाहुवर्तक इति । बहुवर्ते भव इत्यर्थः । धूमादिभ्यश्च । देशवाचिभ्यो वुझिति शेषपूरणम् । नगरात्कुत्सन । नागरा ब्राह्मणा इति । कठ्यादिषु माहिष्मतीसाहचर्येण संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम् तो न ढकञ् । 'प्राची प्रामनगराणाम्' इति सूत्रभाष्ये नागरा इत्युदाहरणात् । अरण्यान्मनुष्ये ।
आरण्यक इति । पन्थाः अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । वा 'जनपदतदवध्योः' इति सूत्रे जनपदावधिवाचिन उदाहरणं तु 'श्यामायनकः' इत्यादि बोध्यम् । नागरा ब्राह्मणा इति । कल यादिषु माहिष्मतीति संज्ञाशब्दसाहचर्यात्संज्ञाभूतनगरशब्दस्यैव ढकना नागरेयक इति भाव्यमिति भावः ।