________________
प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६५ (४-२-१२१) धन्वविशेषवाचिनो यकारोपधाश्च देशवाचिनो वृद्वाद् वुन् स्यात् । ऐरावतं धन्व, ऐरावतकः । साङ्काश्यकाम्पिल्पशब्दौ वुन्छणादि-(सू १२६२) सूत्रेण एयान्तौ । साकाश्यकः । काम्पिल्यकः । १३४६ प्रस्थपुरवहान्ताच्च। (४-२-१२२) एतदन्ताद् वृद्धाद्देशवाचिनो वुल्स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुबहकः। पुरान्तग्रहणमप्रागर्थम् । प्राग्देशे तूत्तरण सिद्धम् । १३४७ रोपधेतोः प्राचाम् । (४-२-१२३) रोपधादीकारान्ताच प्राग्देशवाचिनो वृद्धाद् वुब्स्यात् । पाटलिपुत्रकः । ईतः, काकन्दकः । १३४८ जनपदतदवध्योश्च । (४-२-१२४) जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद् वुन्स्यात् । श्रादर्शकः । त्रैगर्तकः । १३४६ अवृद्धादपि बहुवचनकश्चित् प्राच्यो ग्राम इति शेषः । धन्वयोपधाद वुझ् । ऐरावतं धन्वेति । ऐरावताख्यं धन्वेत्यर्थः । धन्व मरुप्रदेशः । 'समानौ मरुधन्वानौ' इत्यमरः। आष्टकं नाम धन्व इति भाष्यान्नपुंसकत्वमपि । ऐरावतक इति । ऐरावताख्ये मरुप्रदेशे भव इत्यर्थः । वुञ्, अकादेशः । साङ्काश्यकः । काम्पिल्यक इति । साङ्काश्ये काम्पिल्ये च भव इत्यर्थः । प्रस्थपुरवहान्ताच्च । एतदन्तादिति । प्रस्थ, पुर, वह एतदन्तादित्यर्थः । ननु पुरान्तग्रहणं व्यर्थम् , नान्दीपुरक इत्यत्र 'रोपधेतोः प्राचाम्' इत्युत्तरसूत्रेण सिद्धत्वादित्यत आह-पुरान्तेति । रोपधेतोः प्राचाम् । रोपधश्च, ईच्च तयोरिति द्वन्द्वः । षष्ठी पञ्चम्यर्थे । प्राचामिति देशविशेषणम् । तदाह-रोपधादित्यादिना । ईत इति । उदाहियत इति शेषः। काकन्द इति । काकन्दी नाम देशः, तत्र भव इत्यर्थः । जनपदतदवध्योश्च । आदर्शक इति। आदर्शो गाम जनपदः। तत्र भव इत्यर्थः । त्रिगर्तो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगतशब्दे परमपि गर्वोत्तरपदाच्छं बाधितुमिह तदवधिग्रहणम् । तदाह-त्रैगर्तक इति । अवृद्धादपि बहुवचनधन्वेति न स्वरूपपर्याययोर्ग्रहणम , वृद्धत्वासम्भवादित्याशयेनाह-धन्वविशेषेति । ऐरावतं धन्वेति । यद्यपि 'समानौ मरुधन्वानौ' इत्यमरेण पुंस्त्वमुक्तम् , तथापि 'श्राष्टकं नाम धन्व' इति भाष्ये ह्रस्वपाठान्नपुंसकोऽपि धन्वशब्दोऽस्त्येवेति बोध्यम् । उत्तरेणेति । रोपधत्वादिति भावः । जनपद । स चासौ अवधिश्चेति कर्मधारयाजनपदरूप एवावधिर्लभ्यते । न च जनपदत्वादेव सिद्धे अवधिग्रहणं व्यर्थम् , 'वुझेव यथा स्यान्नान्यत्' इत्येतदर्थ तस्यावश्यकत्वात् । अत एव जनपदावधिवाचिनत्रिगर्तशब्दाद् ‘गर्तोत्तरपदात्-' इति छो न भवति, किंतु 'अवृद्धादपि बहुवचनविषयात्' इत्युत्तरसूत्रेण वुझेव भवतीत्याशयेनोदाहरति--त्रैगर्तक इति ।