________________
प्रकरणम् २८ ]
बालमनोरमा-तत्त्ववोधिनीसहिता । [ ४०६
( वा २६० ) इति तदन्तविधिः पूर्वत्र । इह तु न, श्रवयवत्वाभावात् । १३६८ सुसर्वार्थाजनपदस्य । ( ७-३ - १२) उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । ' जनपदतदवध्योः -' ( सू १३४८) इति वुञ् । सुसर्वार्धदिक्छ्ब्देभ्यो जनपदस्य ' ( वा ५५६ ) इति तदन्तविधिः । १३६६ दिशोऽमद्राणाम् । ( ७-३-१३) दिग्वाचकाज्जनपदवाचिनो वृद्धिः । समासः । आदिवृद्धिरेव, न तु उत्तरपदादिवृद्धिः, पूर्वपदस्य श्रवयववृत्तित्वाभावात् । ननु कथमिह 'वर्षाभ्यष्ठक्' इति ठक्, प्रत्ययविधौ तदन्तविधिप्रतिषेधात्, तत्राह — ऋतोरिति । अवयववाचकानां शब्दानामुपरि स्थिताद् ऋतुवाचकाद् वृद्धिनिमित्तकप्रत्यय'विधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेन 'येन विधिः -' इति सूत्रभाष्यस्थितवचनेन पूर्वत्र पूर्वमुदाहृते उदाहरणे तदन्तविधिरित्यर्थः । तथा च पूर्ववार्षिक इत्यत्र पूर्वमन इत्यत्र चोदाहरणे 'वर्षाभ्यष्ठक्' इति ठक्, 'सर्वत्राण च तलोपश्च' इत्यण्तलोपौ च सिध्यन्ति । इह तु नेति । प्रत्युदाहरणे तु तदन्तविधिर्नास्ति । पूर्वासु वर्षास्विति सामानाधिकरण्येन पूर्वशब्दस्य श्रवयववृत्तित्वाभावादित्यर्थः । ततश्च प्रत्युदाहरणे पौर्ववर्षिक इत्यत्र 'कालाट्ठञ्' इति ठञेत्र, नतु ठक्, स्वरे विशेषः । पौर्वमन्तिक इत्यत्रापि ठमेवेति भावः । सुसर्वार्थाजनपदस्य । सु सर्व, अर्ध इस्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः। उत्तरपदस्य वृद्धिरिति । शेषपूरणम् । सुपाञ्चालक इति । सुपञ्चालेषु जात इत्यर्थः । जनपदेति । 'जनपदतदवध्योः' इत्यनुवृत्तौ 'वृद्धादपि बहुवचनविषयात्' इति वुमित्यर्थः । ननु 'अवृद्धादपि -' इति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह-सुसर्वेति । सु, सर्व, अर्ध, दिक्शब्द एभ्यः परस्य जनपदवाचिन उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकेन 'येन विधिः -' इति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः । दिशोऽमद्राणाम् । श्रमद्राणामिति च्छेदः । दिग्वाचकादिति । परस्येति शेषः । जनपदवाचिन इति । मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिइत्येकदेशिसमासः । पूर्वास्खिति । तद्धितार्थे समासः । ऋतोर्बुद्धिमद्विधाविति । ऋतुवाचिनः शब्दाद् वृद्धिनिमित्तकप्रत्ययविधाने तदन्तविधिर्वाच्यः, स चेदृतुवाची शब्दोऽवयवेभ्यः पर इत्यर्थः । पूर्वत्रेति । पूर्ववार्षिकः, अपरहैमन इत्यत्र । तथा च 'वर्षाभ्यष्ठक्', 'सर्वत्राण् च तलोपश्च' इत्याभ्यां क्रमेण ठगणौ भवतः । वृद्धिमधिकम् पूर्वप्रावृषम् । 'प्रावृष एण्यः' इत्यत्र तदन्तविध्यभावादिह ऋत्वणेव । इह त्विति । पौर्ववार्षिक इत्यत्र । तथा चेह 'कालाट्ठञ्' इति ठञेवेति भावः । अवयवत्वाभावादिति । अन्यथा पूर्वासु वर्षाविति सामानाधिकरण्यं न संगच्छेति भावः । जनपदतदवध्योरितीति । तस्मिन्ननुवर्तमाने 'अवृद्धादपि बहुवचनविषयात्
"