________________
४१० ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिकपूर्वपाञ्चालकः । 'दिशः ' किम्-पूर्वपञ्चालानामयं पौर्वपञ्चालः । 'अमद्राणाम्' किम्-पौर्वमद्रः । योगविभाग उत्तरार्थः । १४०० प्राचां ग्रामनगराणाम् । (७-३-१४) दिशः परेषां ग्रामवाचिनां नगरवाचिनां चाङ्गानामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः । नगरे पूर्वपाटलिपुत्रकः । १४०१ पूर्वाह्णापरालार्दामूलप्रदोषावस्कराद् वुन् । (४-३-२५) पूर्वाह्नकः । अपरालकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः । १४०२ पथ: पन्थ च । (४-३-२६) पयि जातः पन्थकः । १४०३ अमावास्याया वा रिति । श्रादेरिति शेषः । पौर्वपञ्चाल इति । अत्र पूर्वशब्दः कालवाचीति भावः । पौर्वमद्र इति । 'मद्रेभ्योऽञ्' इत्यञ् । ननु 'सुसििदशो जनपदस्यामद्राणाम्' इत्येकसूत्रमेवास्त्वित्यत आह-योगविभाग उत्तरार्थ इति । 'प्राचां ग्रामनगराणाम् ' इत्युत्तरसूत्रे दिश एव संबन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसन्थेतति इहार्थोऽपीत्येके । प्राचां ग्रामनगराणाम् । दिश इति । दिशः परे रे प्राच्यग्रामवाचिनः प्राच्यनगरवाचिनश्च तेषामवयवस्यादेवृद्धिः स्यादित्यर्थः। पूर्वेषुकामशम्यामिति । 'दिक्संख्ये संज्ञायाम्' इति समासः । अण । संज्ञात्वाद् 'दिक्पूर्पदात्-' इति ओ न । समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः । नगरेति । उदाहरणसूचनम् । पूर्वपाटलिपुत्रक इति । 'पूर्वापरप्रथम-' इति समासः । 'अवृद्धादपि-' इति वुञ् । यद्यपि पाटलीपुत्रशब्दे उतरपदे आदिवृद्धिरेव। तथापि पूर्वपदस्य वृद्धिनिवृत्तिः फलम् । पूर्वाह्नापराह्न । पूर्वाह्नकः, अपरालक इति । पूर्वाह्ने अपराह्ने च जात इत्यर्थः । 'विभाषा पूर्वाह्लापराह्नाभ्याम्' इत्यस्यापवादः । ट्यट्यलोः ठञश्च विकल्पस्तु जातादन्याथै सावकाश इति भावः। आर्द्रकः । मूलक इति । आर्द्रायां मूले व जात इत्यर्थः । ऋत्वणोऽपवादः। प्रदोषक इति । 'निशाप्रदोषाभ्याम्' इत्यस्यापवादः । अवस्करक इति। श्रौत्सर्गिकस्याणोऽपवादः। पथः पन्थ च । पथिन्शब्दाद् वुन स्यात् प्रकृतेः पन्थादेशश्च । अमावास्याया वा। वुनिति शेषः। पक्षे इत्यनेनेत्यर्थः । पौर्वमद इति । 'मद्रेभ्योऽञ्' इत्यञ् । पूर्वाह्नक इति । 'विभाषा पूर्वाह्नापरानाभ्याम्' इत्यस्यापवादः । आर्द्रकः । मूलक इति। नक्षत्राणोऽपवादः । प्रदोषक इति । 'निशाप्रदोषाभ्यां च' इत्यस्यापवादः । अवस्करक इति । औत्सर्गिकस्याणोऽपवादः । ये तु 'संज्ञायाम्' इत्येतत् 'कृतलब्ध-' इत्येतत्पर्यन्तमनुवर्तयन्ति तन्मते असंज्ञायां यथायथमणादयो घादयश्च बोध्याः। अमावास्याया वा।