SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २८ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ४११ (४-३-३० ) अमावास्यकः, अमावास्यः । १४०४ अ च । ( ४-३-३१ ) अमावास्यः । १४०५ सिन्ध्वपकराभ्यां कन् । ( ४-३ - ३२) सिन्धुकः । कच्छाद्यणि मनुष्य वुनि च प्राप्ते, अपकरकः । श्रौत्सर्गिकेऽणि प्राप्ते । १४०६ अणञौ च । ( ४-३ - ३३ ) क्रमारस्तः । सैन्धवः । श्रपकरः । १४०७ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल लुक् । (४-३-३४ ) एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् संधिवेलादित्वादन् । एकदेशविकृतन्यायादमावस्याशब्दादप्ययं विधिः । अ च । इति लुप्तप्रथमाकम् । श्रमावास्याशब्दादकारः प्रत्ययोऽपीत्यर्थः । श्रादिवृद्धयभावः प्रयोजनम्। सिंध्वपकाराभ्यां कन् । सिन्धुक इति । सिंधौ जात इत्यर्थः । कच्छादीति । 'कच्छादिभ्यश्च' इत्यणि 'मनुष्यतत्स्थयोश्च' इति वुनि च प्राप्ते अयं कन्विधिरित्यर्थः। अपकरक इति । अपकरे जात इत्यर्थः । अणि प्राप्त इति । कन्विधिरिति शेषः । श्रणञौ च क्रमात् स्त इति । सिन्ध्वपकाराभ्यामिति शेषः । श्रविष्ठा । एभ्य इति । श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्य, पुनर्वसु, हस्त, विशाखा, अषाढा, बहुला एतेभ्य इत्यर्थः । जातार्थेति । प्रकरणलभ्यमिदम् । स्वातिशब्दो हस्वान्त इति कैयटहरदत्तौ । दीर्घान्त इति सन्धिवेलाद्यणोऽपवादः । 'अमावस्यदन्यन्तरस्याम्' इति सूत्रेणामापूर्वाद्वर्ण्यति वृद्ध पक्षे ह्रस्वत्वं निपात्यत इति ह्रस्वमध्यस्याप्यमावस्याशब्दस्येह ग्रहणम्, प्रकृतिग्रहणे विकृतेरपि ग्रहणात् । श्रमावस्यकः । आमावस्यः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्रस्वोपधं पठन्ति, तेषां तु दीर्घोपधस्य न स्याद् विकृतिग्रहणेन प्रकृतेर प्रहणादिति हरदत्तादयः । वस्तुतस्तु वृद्धिप्रकृतिभूतस्यानुकरणमिदमित्याश्रित्य हखोपधपाठोऽपि समर्थयितुं शक्यत इत्यन्ये । अ च । अमावास्याशब्दादकारप्रत्ययः स्यात् । श्रयमपि पूर्ववदुभाभ्यां बोध्यः । अमावास्य इति । ह्रस्वमध्यात्तु अमावस्यः । अणञौ च । यथासंख्यार्थो योगविभागः । श्रविष्ठा । इह सूत्रे स्वातिशब्दो हवन्त इति कैयटहरदत्तादयः । माधवस्तु 'दीर्घान्तः' इति 'अंत सातत्यगमने' इति धातावाह | एवं चात्र स्वातीतिष्येति ङीषन्तग्रहणादङीषन्तस्य सौवात इति रूपं भवार्थ इव जातार्थेऽपि माधवमते सिध्यत्येव । कैयटादिमते तु जातार्थे न सिध्यति । लुग्विधायकेऽस्मिन् ङीषन्तप्रहणेऽपि लिङ्गविशिष्टपरिभाषया ङीषन्तादपि अणो लुकः प्रवृत्तेः । उपसर्जनेति । श्रप्रधानमिहोपसर्जनं गृह्यते, न शास्त्रीयमसम्भवात् । ननु 'गोस्त्रियोः-' इति सूत्रेऽप्यप्रधानलक्षणमेवोपसर्जनं गृह्यताम्, 'एकविभक्ति च -' इति शास्त्रीयं न न गृह्यताम् । मैवम्, हरीतक्याः फलानि हरीतक्य इत्यत्र हस्वप्रसङ्गात् । उपसर्जनस्य
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy