________________
४१२]
सिद्धान्तकौमुदी। [तद्धितेषु शैषिकस्यात् । १४०८ लुक्तद्धितलुकि । (१-२-४६ ) तद्धितलुकि सत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि । 'चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् ' (वा २८५७)। चित्रायां जाता चित्रा। खेती रोहिणी प्राभ्यां ' लुक्नद्धितलुकि ' इति लुकि कृते पिप्पल्यादेराकृतिगणस्वात्पुनर्जीए । ' फल्गुन्यषाढाभ्यां टानौ वक्तव्यो' (वा २८५८) । स्त्रियामिस्येव । फल्गुनी । अषाढा । ' श्रविष्ठाषाढाभ्यां छण्वक्तव्यः' (वा २८५६)। 'अत सातत्यगमने' इति धातौ माधवः । कृत्तिकावाचिबहुलाशब्दष्टावन्तः। समाहारद्वन्द्वे ह्रस्वनिर्देशः । लुक तद्धितलुकि । प्रथमस्य द्वितीये इदं सूत्रम् । उप. सर्जनस्त्रीप्रत्ययस्येति । 'गोस्त्रियोरुपसर्जनस्य' इत्यतस्तदनुवृत्तेरिति भावः । श्रविष्ठ इति । ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः । 'लुक् तद्धितलुकि' इत्यत्र अप्रधानमेवोपसर्जनम् , नतु शास्त्रीयम् , असंभवादिति भावः । फल्गुन इति । फल्गुन्योः जात इत्यर्थः । अणो लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातः अनुराधः । नक्षत्राणो लुकि स्त्रीप्रत्ययनिवृत्तिः एवमग्रेऽपि । “अनुराधान् हविषा वर्धयन्तः' इत्यादौ छान्दसं पुंस्त्वम् । स्वात्यां जातः स्वातिः। तिष्ये जातः तिष्यः। पुनवस्वोर्जातः पुनर्वसुः। हस्ते जातो हस्तः। विशाखयोर्जातो विशाखः । अषाढासु जातः अषाढः । बहुलासु जातः बहुलः । चित्रेति । चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः। रेवतीरोहिणीति । जातायां नक्षत्राणो लुकि सति प्रकृतेगौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्जीष् । ननु रेवती नक्षत्रे रोहिणी नक्षत्रे इति गौरादौ पाठादिह जातार्थवृत्तिभ्यां कथं डीषित्यत आह-आभ्यामिति । रेवतीरोहिणीशब्दाभ्यामित्यर्थः। परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्येति शेषः। प्राकृतिगणत्वादिति । स्त्रीत्वविशिष्टजातार्थवृत्त्योरनयोः पिप्पल्यादौ निवेशे भाष्योदाहरणमेव प्रमाणम् । स्त्रियामित्येवेति । तथा भाष्यादिति भावः । फल्गुनी, अषाढा इत्याभ्यां क्रमात् टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः । फल्गुनीति । फल्गुन्योर्जातेत्यर्थः । नक्षत्राणोऽपवादः टप्रत्ययः। 'यस्येति च' इति इकारलोपः । जातार्थस्त्रीत्वे टित्त्वाद् डीप् । अषाढेति । अषाढासु जातेत्यर्थः । नक्षत्राणोऽपवादः अन् , 'यस्येति च' 'किम् , अवन्ती, कुन्ती, कुरूः । श्रविष्ठाखिति । श्रविष्ठा, धनिष्टा । इत्यादीति । श्रादिशब्दादनुराधः, खातिः, तिष्यः, पुनर्वसुः, हस्तः, विशाखः, अषाढः, बहुलः । कृत्तिकावाची बहुलाशब्दष्टाबन्तः, तस्य समाहारद्वन्द्वेन ह्रखनिर्देशः सूत्रे । उपसंख्यानमिति । लुक इति शेषः । चित्रेति । 'लुक्तद्धित-' इति लुकि पुनष्टाप् ।