________________
प्रकरणम् २८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ४१३
न
स्त्रियामपि । श्राविष्ठीयः I आषाढीयः । १४०६ जे प्रोष्ठपदानाम् । ( ७-३-१८) प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे जिति णिति किति च । प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः । ' जे ' इति किम् - प्रोष्ठपदासु भव: प्रोष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भद्रपादः । १४९० स्थानान्तगोशालखरशालाच्च । ( ४-३-३५ ) एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थाने जातो गोस्थानः । गोशालः । खरशालः । ' विभाषा सेना -' ( सू ८२८ ) इति नपुंसकत्वे ह्रस्वत्वम् । १४११ वत्सशालाभिजिदश्वयुक्तभिषजो वा । ( ४-३ - ३६ ) एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः, वात्सशाल इत्यादि । 'जातार्थे प्रतिप्रसूतोइत्याकारलोपः । जातार्थे स्त्रीत्वे टाप् । 'श्रविष्ठाफल्गुनी -' इत्यादिना टानोर्लुक् तु न, विधानसामर्थ्यात् । छण्वक्लव्य इति । नक्षत्राणोऽपवादः । विधिसामर्थ्यादस्यापि लुक् | अस्त्रियामपीति । अत्र स्त्रियामिति न संबध्यते, भाष्ये तथोदाहरणादिति भावः । श्राविष्ठीय इति । श्रविष्टासु जात इत्यर्थः । छण्, ईयः, 'यस्येति च' इत्याकारलोपः । णित्त्वादादिवृद्धिः । आषाढीय इति । अषाढासु जात इत्यर्थः । जे प्रोष्ठपदानाम् । आदिवृद्धिप्रकरण उत्तरपदस्येत्यधिकारे इदं सूत्रम्, तदाहप्रोष्ठपदानामिति । जशब्देन जातार्थप्रत्ययो विवक्षितः, तदाह – जातार्थ इति । प्रोष्ठपदानामिति बहुवचनस्य प्रयोजनमाह - बहुवचनेति । भद्रपाद इति । भद्रपदासु जात इत्यथः । स्थानान्तगोशाल । एभ्य इति । स्थानान्त, गोशाल, खरशाल एतेभ्य इत्यर्थः । गोस्थान इति । गोस्थाने जात इत्यर्थः । गोशाल इति । गोशाले जात इत्यर्थः । एवं खरशालः । सर्वत्र अणो लुकि नादि - वृद्धिः । ननु शालाशब्दस्य स्त्रीलिङ्गत्वाद् हस्वनिर्देशोऽनुपपन्न इत्यत आह- - विभाषा सेनेति । लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुक् । वत्सशालाभिजित् । एभ्य इति । वत्सशाला, अभिजित् श्रश्वयुज्, शतभिषज् इत्येभ्य इत्यर्थः । परस्येति शेषः । इत्यादीति । अभिजिति जात अभिजितः, अभिजित् । श्रश्वयुजो
नाविति । विधानसामर्थ्यादेतयोर्न लुक् । स्थानान्त । गोशालेत्यत्र ' विभाषा सेना-' इति नपुंसकत्वे ह्रस्वत्वं तत्साहचर्यात्खरशालेऽप्येवमेव । न चैवं स्त्रीत्वपक्षे लुङ् न स्यादिति शङ्कयम्, लिङ्गविशिष्टपरिभाषया तत्रापि लुसिद्धेरित्याहुः । यद्यपि टाबन्तयोः पाठेऽप्येकदेशविकृतन्यायेन क्लीबेऽपीष्टं सिध्यति, तथापि लाघवार्थं हखपाठः । नपुंसकत्वे ह्रस्वत्वमिति । सूत्र इति शेषः । वत्सशाले जात इति । वत्सशालायामित्यपि बोध्यम् । इत्यादीति । श्रादिशब्दादभिजित्, अभिजितः,