________________
४१४ ] सिद्धान्तकौमुदी। तद्धितेषु शैषिकऽण्वा डिद्वक्तव्यः (वा २६६०) । शातभिषजः, शातभिषः, शतभिषक् । १४१२ नक्षत्रेभ्यो बहुलम् । (४-३-३७) जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः, रौहिणः। १४१३ कृतलब्धकीतकुशलाः । (४-३-३८) 'तत्र' इत्येव । स्त्रने कृतो लब्धः क्रीतः कुशलो वा स्रौनः। १४१४ प्रायभवः। (४.-३-३६) 'तत्र' इत्येव । खप्ने प्रायेण बाहुल्येन भवति स्रौघ्नः । १४१५ उपजानूपकर्णोपनीवेष्ठक। (४-३-४०) औपजानुकः । औपर्जात आश्वयुजः, अश्वयुक् । शतभिषजि जातः शातभिषजः, शतभिषक् । जातार्थ इति । 'कालाठ्ठञ्' इति ठा निवर्तित औत्सर्गिकोऽण् सन्धिवेलादिसूत्रेण पुनरु. त्थितो डिद्वा वक्तव्य इत्यर्थः । 'दृष्टं साम' इति सूत्रभाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति । अणि डित्त्वपक्षे टिलोपः। नक्षत्रेभ्यो बहुलम् । रोहिण इति । रोहिण्यां जात इत्यर्थः । नक्षत्राणो लुकि आदिवृद्धिनिवृत्तौ 'लुक् तद्धितलुकि' इति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यम् , न हि रोहितशब्दोऽयं वर्णविशेषवाचकः, येन 'वर्णादनुदात्तात्--' इति ङीपो निवृत्तौ तकारोऽपि निवर्तेत । किंतु रोहिणीशब्दोऽयमव्युत्पन्नो नक्षत्रविशेषे रूढः। 'रोहिणी नक्षत्रे' इति गौरादिपाठाद् ङीष् । अत एव 'रोहिणी नक्षत्रं प्रजापतिर्देवता' इत्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते। अन्यथा 'वर्णानां तणतिनितान्तानाम्' इति आयुदात्तत्वं स्यादित्यलम् । कृतलब्ध । तत्रेत्येवेति । 'तत्र जातः' इत्यतस्तत्रेत्येवानुवर्तते । जात इति तु निवृत्तमित्यर्थः। तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्व यथायथं स्युरित्यर्थः । स्रौन इति। श्रौत्सगिकोऽण । राष्ट्र कृतो राष्ट्रिय इत्याद्यप्युदाहार्यम् । प्रायभवः। तत्रेत्येवेति । प्रायभव इत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः। प्रायशब्दस्य व्याख्यानम्-बाहुल्येनेति । तत्र भव इत्येव सिद्धत्वात् प्रत्याख्यातमिदं भाष्ये । उपजानूपकर्ण । प्रायभव इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यः ठगित्यर्थः । अश्वयुक्, आश्वयुजः । प्रतिप्रसूत इति । कालाढा निवर्तमानो य औत्सर्गिकोऽण् 'सन्धिवेलादि-' सूत्रेण पुनरभ्यनुज्ञात इत्यर्थः । कृतलब्ध । ननु कृतक्रीतत्वे जातलब्धत्वयोप्प्ये इति किमनयोर्ग्रहणेन । सत्यम् , कृतत्वक्रीतत्वप्रकारकबोधेऽपि प्रत्ययार्थ तद्ग्रहणम् । अतएव जाते लुग्भाजामपि कृते न लुक् । प्राय । कादाचित्कभवनाश्रयः प्रायभवः । तेन 'तत्र भवः' इत्यनेन न गतार्थतेत्याहुः । भाष्ये तु प्रत्याख्यातमेतत् । 'प्रायभवग्रहणमनर्थकं तत्र भवेन कृतत्वात्' इति । उपजानूप । त्रयोऽप्यमी सामीप्येऽव्ययीभावाः । तेषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् ।