SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४१५ कर्णिकः । औपनीविकः । १४१६संभूते । (४-३-४१) नन्ने संभवति स्रौनः । १४१७ कोशाड्ढञ् ।। ४-३-४२) कौशेयं वस्त्रम् । १४१८ कालात्साधुपुष्ष्यत्पच्यमानेषु। (४-३-४३) हेमन्ते साधुहेमनः प्रावारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः। १४१६ उप्ते च। (४-३-४४) हेमन्ते उप्यन्ते हैमन्ता यवाः । १४२० अाश्वयुज्या वु । (४-३-४५) ठोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजया माषाः । उपजान्वादिषु सामीप्येऽव्ययीभावः । औपजानुक इति । जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः। उगन्तात्परत्वात् ठस्य कः । औपकर्णिक इति । कर्णस्य समीपमुपकर्णम् , तत्र प्रायभव इत्यर्थः । औपनीविक इति । नीवः समीपमुपनीवि, तत्र प्रायभव इत्यर्थः । संभूते । तत्रेत्येव । सप्तम्यन्तात्सम्भूतेऽर्थे अणादयो घादयश्च यथायथं स्युरित्यर्थः । संभवः संभावना। कोशाड्ढञ् । कौशेयं वस्त्रमिति । कृमिविशेषकोशस्य विकार इत्यर्थः, 'विकारे कोशाड्ढञ्' इति वार्तिकात् । कालात्साधुपुष्प्यत् । तत्रेत्येव । साधुः, पुष्प्यत् , पच्यमानम् इत्यर्थेषु सप्तम्यन्तायथाविहितं प्रत्ययाः स्युरित्यर्थः 'पुष्प विकसने' इति देवादिकाल लटः शतरि पुष्प्यदिति भवति । हैमनः प्रावार इति । 'सर्वत्राण च तलोपश्च' इत्यणि तलोपः । वासन्त्य इति । 'टिड्ढ-' इति ङीप् । शारदा इत्यत्र ऋत्वण । 'तत्र भवः' इति यावत् कालादित्यनुवर्तते । उप्ते च। तत्रेत्येव । कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः । उप्यन्त इति । 'डुवप् वीजसन्ताने' भूतकालस्त्वविवक्षित इति भावः। आश्वयुज्या वुञ् । तत्रोप्त इत्येव । सप्तम्यन्तादाश्वयुजीशब्दाद् उप्तेऽर्थे वुञ् स्यादित्यर्थः । ठोऽपवाद इति । 'काला' इति विहितस्येत्यर्थः । आश्वयुजका माषा इति । अश्वयुग्भ्यां युक्ता पौर्णमासी संभूते । इह तन्त्रादिना सम्भावना, आधारपरिमाणादाधेयस्यानतिरेकश्चेति द्वयमप्याश्रीयते । सौन इति । स्रघ्ने सम्भाव्यते तत्परिमाणानतिरिक्तो वा सेनादिरित्यर्थः । कोशात् । कौशेयमिति । वस्त्रविशेषे योगरूढोऽयम् । कोशे सम्भवस्तु सत्कार्यवादाभिप्रायेण । मतान्तरे तु विकारप्रकरणे 'एण्या ढञ्' इत्यस्यानन्तरं 'कोशाच्च' इति पठितव्यम् । तथा च वार्तिकं 'विकारे कोशाड्ढञ् संभूते ह्यर्थानुपपत्तिः' इति । कालात् । पुष्प्यदिति देवादिकः शत्रन्तस्तदाह-पुष्प्यन्तीति । उप्ते च । कालादित्येव । योगविभाग उत्तरार्थः । उप्यन्त इति । सूत्रे भूतकालोऽतन्त्रमिति भावः । आश्वयुज्या वुञ् । नकारः स्वरार्थ उत्तरत्र वृद्ध्यर्थश्च । आश्वयुज्या. मिति । अश्विनीनक्षत्रपर्यायः अश्वयुक् , तयुक्ता पौर्णमासी आश्वयुजी तत्रेत्यर्थः ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy