SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४१६ ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिक१४२१ ग्रीष्मवसन्तादन्यतरस्याम् । (४-३-४६) पक्षे ऋस्वण । प्रैष्मकम् , ग्रैष्मम् । वासन्तकम् , वासन्तम् । १४२२ देयमृणे। (४-३-४७) 'कालात्' इत्येव । मासे देयमृणं मासिकम् । १४२३ कलाप्यश्वत्थयवसाद वुन् । (४-३-४८) यस्मिन्काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी । तत्र देयमृणं कलापकम् । अश्वत्थस्य फलमश्वत्थः। तद्युक्नः कालोऽप्यश्वत्थः । यस्मिन्काले अश्वस्थाः फलन्ति, तत्र देयमृणमश्वत्थकम् । यस्मिन्यवबुसमुत्पद्यते तत्र देयमणं यवबुसकम् । १४२४ ग्रीष्मावरसमाद वुञ्। (४-३-४६) प्रीष्मे देयमृणं प्रैष्मकम् । आवरसमकम् । १४२५ संवत्सराग्रहायणीभ्यां ठश्च । (४-३-५०) चाद् वुञ् । सांवत्सरिकम् , सांवत्सरकम् । अाग्रहायणिकम् , आग्रहायणकम् । १४२६ व्याहरति मृगः। (४-३-५१) कालवाचिनः श्राश्वयुजी, तत्रोप्ता इत्यर्थः । ग्रीष्मवसन्तात् । प्रीष्माद् वसन्ताच्च सप्तम्यन्तादुप्ते वुञ् वेत्यर्थः । देयमृणे । कालादित्येवेति । तत्रेत्यप्य नुवर्तते । बुअिति निवृत्तम् । सप्तम्यन्तात्कालवाचिनो देयमित्यर्थे यथाविहितं प्रत्यया. स्युः । तस्मिन् देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति । 'काला' । कलाप्यश्वत्थ । कलापिन्, अश्वत्थ, यवबुस एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन् स्यादित्यर्थः । कलापकमिति । वुन् , अकादेशः, 'नस्तद्धिते' इति टिलोपः । अश्वस्थस्य फलमश्वत्थ इति । विकारप्रत्ययस्य फले लुगिति भावः । अश्वत्थशब्दस्य प्लक्षादित्वे तु ततः ‘प्लादिभ्योऽण' इति फले अणो विधानसामर्थ्याल् लुगभावे अश्वत्थशब्दः फले लाक्षणिक इति भावः। ग्रीष्मावरसमादञ्। समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः । ग्रीष्म अवरसमा अनयोः समाहार द्वन्द्वात्पञ्चमी । तत्र देयमणमित्यर्थे आभ्यां बुनित्यर्थः । आवरसमकमिति । अवरासु समासु देय. मृणमित्यर्थः । तद्धितार्थ-' इति समासः । संवत्सराग्रहायणीभ्यां ठञ् च । देयमृणमित्यर्थे सप्तम्यन्तादिति शेषः। सन्धिवेलादिगणे 'संवत्सरात् फलपर्वणोः' इति पठितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तः अण् अनेन ठना बाध्यते । देयमृणे । ऋणे किम् , मासे देया भिक्षा । अश्वत्थ इति । ‘फले लुक्' । इह पुंल्लिङ्गनिर्देशो यद्यप्ययुक्तः, तथापि फले अश्वत्थशब्द औपचारिक इत्याशयेन पुँल्लिङ्गप्रयोग इत्याहुः । ठञ्चेति । 'संवत्सराग्रहायणीभ्यां वा' इत्येव स्वचम् । न च 'वा' इति वक्तव्ये ठग्रहणं व्यर्थम् , सन्धिवेलादिषु 'संवत्सरात्फलपर्वणोः' इति पठ्यते, तत्र फले ऋणत्वेन विवक्षिते अणं बाधित्वा ठओव यथा स्यादिति काशिकादावुक्तमिति वाच्यम् , तस्मै हितास्तद्धिता इत्यन्वर्थसंज्ञाकरणबलेनात्राएप्रत्ययो न भवेदिति वक्तुं
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy