________________
प्रकरणम् २८ ] बालमनोरमा-तत्वबोधिनीसहिता। [४१७ सप्तम्यन्ताच्छन्दायते इत्यर्थे अणादयः स्युः, यो ग्याहरति स मृग । निशायां व्याहरति नैशो मृगः, नैशिकः । १४२७ तदस्य सोढम् । (४-३-५२) • कालात् ' इत्येव । निशासहचरितमध्ययनं निशा, तस्सोढमस्य नैशिकः नैसः। १४२८ तत्र भवः । (४-३-५३) नो भवः सोमः । राष्ट्रियः । १४२६ दिगादिभ्यो यत् । (४-३-५४) दिश्यम् । वय॑म् । १४३० शरीरावयवाच्च । (४-३-५५) हन्स्यम् । कएव्यम् । १४३१ प्राचां नगरान्ते (७-३-२४ ) प्राचा देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादरचो वृद्धिव्याहरति मृगः । तत्र कालादित्येव । देयमृण इति निवृत्तम् । तदस्य सोढम् । अस्मिन्नर्थे प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युः। सोढमित्यस्य अभ्वस्त मित्यर्थः । नैशिकः, नैश इति । 'निशाप्रदोषाभ्यां च' इत्यराठो। तत्र भवः । कालादिति निवृत्तम् । अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । भवनं सत्ता, जननमुत्पत्तिरिति भेदः । स्रौन इति । औत्सर्गिकोऽण । राष्ट्रिय इति । 'राष्ट्रावार-' इति घ । दिगादिभ्यो यत् । भव इत्यर्थे सप्तम्यन्तेभ्य इति शेषः। दिश्यमिति । दिशि भवमित्यर्थः । शरीरावयवाच्च । भव इत्यर्थे सप्तम्यन्तेभ्य इति शेषः । दन्त्यमिति । दन्ते भवमित्यर्थः । यस्येति च' इत्यकारलोपः । एवं कण्ठ्यम् । प्राचां नगरान्ते । अगस्येत्यधिकृतं नगरान्ते इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते । 'उत्तरपदस्य' इत्यधिकृतम् । 'हृद्भगसिन्ध्वन्ते-' इति सूत्रात् 'पूर्वपदस्य' इत्यनुवर्तते । तदयमर्थः-प्राची यन्नगर तदन्ते अङ्गे पूर्वपदस्योत्तरपदस्य च अचामादरचो वृद्धिः स्याद् निति णिति किति च तद्धित इति । सुह्मनगरमिति पुण्ड्रनगरमिति च प्राग्देशस्य पूर्वाशक्यत्वादिति नव्याः । नैशिक इति । 'निशाप्रदोषाभ्यां च' इति वा ठञ् । तत्र भवः । 'कालात्' इति निवृत्तम् । कालसम्बद्धस्य 'तत्र' इत्यस्य निवृत्तये पुनस्तत्र. ग्रहणात् । न च पूर्वसूत्रस्थस्य 'तत्' इत्यस्य व्यावृत्तये तत्रग्रहणमस्त्विति वाच्यम् , 'तदस्य-' इति सूत्रस्येत उत्तरत्रापि सुपठत्वात् । यद्यपि भूधातुरुत्पत्तावपि वर्तते तथापीह सत्तार्थ एव वर्तते, 'तत्र जातः' इति पृथग्ग्रहणादिति बोध्यम् । दिगादिभ्यो । 'दिश् , वर्ग, पूग, पक्ष, रहस् , उखा, साक्षिन्, आदि, अन्त, मुख, जघन, मेघ, यूथ, 'उदकात्संज्ञायाम्' न्याय, वंश, कालेत्यादिदिगादिः । मुखजघनयोः पाठोऽत्राशरीरावयवाथेः । सेनाया मुखे जघने च भवं मुख्यम् , जघन्यम्, प्राचां नगरान्ते । सप्तमीनिर्देशाद् 'अगस्य' इत्यधिकृतमपि सप्तम्यन्तेन विपरिणम्यते,
१ 'पूर्वान्तावयवः' इति क. ।