________________
१७४ ]
सिद्धान्तकौमुदी। [ बहुवीहिसमासस्थानिद्वारेणायं समासान्तः । ग्याघ्रस्वेव पादावस्य ग्याघ्रपात् । महस्त्यादिभ्यः किम्-हस्तिपादः । कुसूलपादः । ८७८ कुम्भपदीषु च । (५-४-१३६) कुम्भपद्यादिषु पादस्य लोपो डीप् च निपात्यते स्त्रियाम् । 'पादः पत्' (सू ४१४) कुम्भपदी । स्त्रियाम् किम्-कुम्भपादः । ८७६ संख्यासुपूर्वस्य । (५-४-१४०) पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् । ८८० वयसि दन्तस्य दतु । (५-४-१४१) संख्यासुपूर्वस्य दन्तस्य दत इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षड् दन्ता प्रस्य षोडन् । सुदन्, सुदती । वयसि किम्-द्विदन्तः करी । सुदन्तो (नटः) । २८१ स्त्रियां संशास्थानीति । व्याघ्रस्येवेति । फलितार्थकथनमिदम् । व्याघ्रपादाविव पादावस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य-' इति समासः । कुम्भपदीषु च । कुम्भपदीविति बहुवचननिर्देशाद् गणपाठाच कुम्भपद्यादिग्रहणमिति भावः । ङीपू चेति । 'पादोऽन्यतरस्याम्' इति विकल्पापवाद इति भावः । स्त्रियामिति । कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः। कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः । 'पादस्य लोपोऽहस्त्यादिभ्यः' इति लोपे सिद्धे तदनुवादेन नित्यं कीवर्थ वचनम् । संख्यासुपूर्वस्य । शेषपूरणेन सूत्रं व्याचष्टे--पादस्येति । उपमानात् परत्वाभावादप्राप्तौ वचनम् । द्विपादिति । द्वौ पादावस्येति विग्रहः । सुपादिति । शोभनौ पादावस्येति विग्रहः । वयसि दन्तस्य दत् । द्विदन्निति । द्वौ दन्तौ यस्येति विग्रहः। शिशुत्वं गम्यते। दन्तस्य दत्रादेशः । ऋकार इत् । उगित्त्वान्नुम् । सुलोपः । सयोगान्तलोपः । तस्यासिद्धत्वादुपधादी? न। चतुर्दनिति । चत्वारो दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । षोडन्निति । षड् दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । 'षष उत्त्वम्-' इति ष्टुत्वोत्त्वे । सुदन्निति । सु शोभना दन्ताः समस्ता जाता यस्येति विग्रहः । वयोविशेषावगतये समस्तस्य निवेशः । सुदतीति । पुनरभावो भावस्यावयवः स्यात्तत्राह-स्थानिद्वारेणेति । वचनबलादौपचारिकमवयवत्वं गृह्यत इति भावः । कुम्भपदीषु च । बहुवचननिर्देशाद्गणपाठसामर्थ्याचाप्यर्थावगतिरित्यभिप्रेत्याह-कुम्भपद्यादिष्विति । इह गणे कुम्भपदी एकपदी जानपदीत्येवं समुदाया एव पठ्यन्ते, तस्य च प्रयोजनं विषयविशेषपरिग्रह इत्याशयेनाह-स्त्रियामिति । यच्चेहोपमानपूर्व संख्यापूर्व च पठ्यते तस्य सिद्धे लोपे नित्यडीबर्थ वचनम् , तेन ‘पादोऽन्यतरस्याम्' इति विकल्पो न भवति । द्विदन्निति । द्वौ दन्तावस्य जाती। शिशुत्वावस्था त्विह गम्यते । 'उगिदचाम्-' इति नुम् । संयोगान्तलोपस्यासिद्धत्वाचलोपो न । षोडनिति । षष उत्वं दतृदशधा-' इत्यनेनोत्वष्टुत्वे।