________________
प्रकरणम् १६ ] बालमनोरमा तत्त्वबोधिनीसहिता। [१७५ याम् । (५-४-१४३) दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । प्रयोदती । फालदती । संज्ञायां किम्-समदन्ती । ८८२ विभाषा श्यावारोकाभ्याम् । (५-४-१४४) दन्तस्य दतृ स्याबहुव्रीहौ । श्यावदन्, श्यावदन्तः । परोकदन्, अरोकदन्तः । ८८३ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । (५-४-१४५) एभ्यो दन्तस्य दतृ वा । कुड्मलाग्रदन्, कुड्मलाग्रदन्तः । ८८४ ककुदस्यावस्थायां लोपः। (५-४-१४६) अजातककुत् । पूर्णककुत् । ८८५ त्रिककुत्पर्वते । (५-४-१४७) त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञैषा पर्वतविशेषस्य । त्रिककुदोऽन्यः । ८८६ उद्विभ्यां काकुदस्य । (५-४-१४८) लोपः स्यात् । उस्काकुत् । विकाकुत् । काकुदं तालु । ८८७ पूर्णाद्विभाषा । शोभना दन्ताः समस्ता यस्या इति विग्रहः । दत्रादेशः । 'उगितश्च' इति गप् । द्विदन्तः करीति । हस्तिनः सर्वदा द्विदन्तत्वेन वयोविशेषानवगतिरिति भावः । स्त्रियां संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे-दन्तस्येति । वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम् । अयोदतीति । फालदतीति । संज्ञाविशेषाविमौ । समदन्तीति । समा दन्ता यस्या इति विग्रहः । 'नासिकोदर-' इति डीए । विभाषा श्यावारोकाभ्याम् । शेषपूरणेन सूत्रं व्याचष्टे-दन्तस्येति । श्यावदन्निति । श्यावा धूम्रा दन्ता यस्येति विग्रहः । 'श्यावः स्यात् कपिशो धूम्र' इत्यमरः । अरोकदन्निति । अरोका अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः । अग्रान्त। अग्रः अग्रशब्दोऽन्तेऽवसाने यस्य स अग्रान्त इत्यभिप्रेत्योदाहरति-कुमलाग्रदन्निति । कुड्मलानां मुकुलानां अग्राणि तानीव दन्ता यस्येति विग्रहः । शुद्धदन्, शुद्धदन्तः । शुभ्रदन्, शुभ्रदन्तः। वृषदन्, वृषदन्तः । वराहदन्, वराहदन्तः । ककुदस्य । अवस्थायां गम्यमानायां ककुदस्य लोपः स्याद् बहुव्रीहावित्यर्थः ।
आहारकालादिकृतोऽवयवानामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम् । प्रजातककुदिति । अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः । पूर्णककुदिति । पूर्ण ककुदमस्येति विग्रहः । युवेत्यर्थः । त्रिककुत् पर्वते । पर्वतविशेषे गम्य इत्यर्थः । त्रिककुदिति कृताकारलोपो निपात्यते । त्रीणि ककुदानि शृङ्गाणि यस्येत्यर्थः । उद्विभ्यां काकुदस्य । लोप इति । सुदतीति । 'उगितश्च' इति ङीप् । समदन्तीति । 'नासिकोदर-' इत्यादिना ङीष् । श्यावदन्निति । 'श्यावः स्यात्कपिशः' इत्यमरः । अरोदकन्निति । अरोका अच्छिद्रा दन्ता यस्य सः । अग्रान्त । इहानुक्कसमुच्चयार्थश्चकारस्तेन मूषिकदनिति सिद्धयतीत्याहुः। -अजातेति । अजातं ककुदमस्येति विग्रहः। इह हि बाल्या