________________
१७६
सिद्धान्तकौमुदी | [ बहुव्रीहिसमास
(५-४-१४) पूर्ण काकुत्, पूर्णकाकुदः ।
सुहृदुर्द्वदौ मित्रामित्रयोः । (५-४-१५०) सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् | दुहृदमित्रः । अन्यत्र सुहृदयः, दुर्हृदयः । उरःप्रभृतिभ्यः कप् । ( ५-४-१५१ ) व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु 'शेषाद्विभाषा' ( सू ८१ ) इति विकल्पेन कप् । द्विपुमान् द्विपुंस्क: । 'अर्थान्नञः ' ( ग १४६)। अनर्थकम् । नञः किम् - अपार्थम्, अपार्थकम् । ८६० इनः स्त्रियाम् । उद्विभ्यां परस्य काकुदस्य लोपः स्यात् बहुव्रीहावित्यर्थः । उत्काकुदिति । उन्नतं काकुदं यस्येति विग्रहः। काकुदशब्दं व्याचष्टे - काकुदं तात्विति । पूर्णाद्विभाषा । पूर्णात् परस्य काकुदस्य लोपो वा स्यादित्यर्थः । पूर्ण काकुदं यस्येति विग्रहः । सुहृद् दुर्हृदौ । यथासंख्यमभिप्रेत्योदाहरति- सुहृन्मित्रमिति । सु शोभनं हृदयं यस्येति विग्रहः । उरःप्रभृतिभ्यः कप् । बहुव्रीहौ समासान्तः तद्धित इति विशेषः । तद्धितत्वात् ककारस्य नेत्संज्ञा । व्यूढोरस्क इति । व्यूढं विशालम् उरो वक्षो यस्येति विग्रहः । कप् । 'सोऽपदादौ' इति सत्वम् । प्रियसर्पिष्क इति । प्रियं सर्पिः यस्येति विग्रहः । कप् । ‘इणः षः' इति षत्वम् । ननु द्वौ पुमांसौ यस्य स द्विपुमानित्यनुपपन्नम् । उरःप्रभृतिषु पुमानिति पुंस्शब्दस्य पाठादित्यत आह- इहेति । गणे अविभक्तिकानामेव पाठः । इह तु केषांचिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः । द्विपुंस्क इति । 'संपुंकानाम् -' इति सः । अर्थान्नञ इति । गण वस्था गम्यते । उरःप्रभृतिभ्यः कप् । उरः प्रभृत्यन्ताद्बहुव्रीहेः कप् स्यात् । ‘समासार्थोत्तरपदान्ताः समासान्ताः' इति पक्षे तु बहुव्रीहेश्वरमावयवेभ्य उरःप्रभृति भ्यः कबिति व्याख्येयम् । तद्धितत्वात्कस्य नेत्वम् । व्यूढोरस्क इति । व्यूढं विशालमुरो यस्य सः । ‘सोऽपदादौ' इति विसर्जनीयस्य सः । प्रियसर्पिष्क इति । 'इणः षः' इति विसर्गस्य षत्वम् । एकवचनान्तानीति । 'नघृतश्च' इति सिद्धे लक्ष्मीशब्दपाठस्त्विह एकवचनान्तलक्ष्मीशब्दावयवकबहुव्रीहेरेव नित्यं कप् । अन्यत्र 'शेषात् -' इति विकल्प एवेति नियमार्थः । तेन 'अकृशमकृशलक्ष्मीश्चेतसा शंसितं सः ' इति भारविप्रयोगः सिद्धः । अकृशा लक्ष्म्यो यस्येति विग्रहः । यत्तु प्राचोक्तं'नयृतश्च' इति कप् बहुलक्ष्मीक इति । तदयुक्तम् । संख्यावाचिबहुशब्दस्यैकवचनान्तत्वाभावात्प्रकृतनियमेन वारितत्वात् । बह्वी अधिका लक्ष्मी यस्येति विग्रहे वैपुल्यवाचिन एकवचनान्तत्वसंभवेऽपि विशेषविधर्बलीयस्त्वेन 'उरःप्रभृतिभ्यः कप्' इत्येव वक्तुमुचितत्वात् । यदा तु 'नियमशास्त्राणां निषेधमुखेन प्रवृत्तिः' इत्याश्रीयते तदा प्राची