________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७७ (५-४-१५२) बहुदण्डिका नगरी । 'अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' (प १७) बहुवग्ग्मिका । स्त्रियां किम्-बहुदण्डी, बहुदण्डिको ग्रामः । ८६१ शेषाद्विभाषा । (५-४-१५४) अनुक्समासा. न्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कब्वा स्यात् । महायशस्कः, महायशाः । अनुक्कइत्यादि किम्-व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम्सूत्रम् । नत्र परो योऽर्थशब्दस्तदन्ताद् बहुव्रीहेः कप स्यादिति तदर्थः । अनर्थकमिति । अविद्यमानोऽर्थो यस्येति विग्रहः । अपार्थम् , अपार्थकमिति । अपगतोऽर्थो यस्मादिति विग्रहः । अत्र नपूर्वकत्वाभावाद् न नित्यः कबिति भावः । इनः स्त्रियाम् । इन्नन्तात् कप स्याद् बहुव्रीहावित्यर्थः । बहुदण्डिका नगरीति । दण्डः अस्यास्तीति दण्डी, 'अत इनिठनौ' इति इनिः । बहवो दण्डिनो यस्याम् इति विग्रहः । बहुवाग्ग्मिकेति । वागस्यास्तीति वाग्ग्मी । 'वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः । नकारादिकार उच्चारणार्थः । तद्धितत्वाद् गकारस्य नेत्संज्ञा, चकारस्य कुत्वम् , जश्त्वम्, वाग्ग्मीति रूपम् । बहवो वाग्मिनो यस्यामिति विग्रहः । अत्रेनः अनर्थकत्वेऽपि 'अनिनस्मन्-' इति वचनात्तदन्तस्याप्यत्र ग्रहणमिति भावः । बहुदण्डी, बहुदण्डिको ग्राम इति । बहवो दण्डिनो यस्मिन्निति विग्रहः । अत्र समासस्यास्त्रीलिङ्गत्वान्न नित्यः कबिति भावः । शेषाद्विभाषा । इतः पूर्व येभ्यः समासान्ता विहिताः, तेभ्योऽन्यः शेषः । तदाह-अनुक्कसमा. सान्तादिति । शेषाधिकारास्थादिति । शेषादित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः । महायशस्क इति । महद् यशो यस्येति विग्रहः । 'प्रान्महतः-' इत्यात्त्वे, कपि, 'सोऽपदादौ' इति सत्वम् । महायशा इति । कबभावे 'अत्वसन्तस्य-' इति दीर्घः । व्याघ्रपादिति । 'पादस्य लोपोऽहस्त्यादिभ्यः' इत्युक्तसमासान्तोऽयम् , स्थानिद्वारा लोपस्यापि समासान्तत्वात् । सुगन्धिरिति। तमपि सम्यगेवेति ज्ञेयम् । अर्थानत्र इति । गणसूत्रमिदम् । अनर्थकेनापीति । कथं तर्हि 'सुपथी नगरी' इति हलन्तेषूक्तम् , कपोऽत्र दुर्वारत्वात् । न च 'न पूजनात्' इत्यनेन 'ऋक्पूरब्धू :-'इत्यस्येव कपोऽपि निषेधः शङ्कयः, षचः प्राचीनानामेव स निषेध इति वक्ष्यमाणत्वात् । कप्प्रत्ययस्य षच उत्तरत्वात् । सत्यम् , समासान्तविधेरनित्यत्वात्साधुरिति समाधेयम् । 'युवोरनाकौ' इति सूत्रे सुपथीति भाष्याच्चेत्युक्लम् । बहुवाग्ग्मिकेति । 'वाचो म्मिनिः' । शेषाद्वि । यद्यत्र प्रागुक्तकबमात्रापेक्षः शेषः स्यात् तर्हि व्याघ्रपात्सुगन्धिरित्यादावपि स्यात् । अतः समासान्तापेक्षः शेष इह गृह्यत इत्याह-अनुक्कसमासान्तादिति । व्याघ्रपादिति । स्थानिद्वारा लोपोऽपि