________________
1
१७८ ]
सिद्धान्तकौमुदी । [ बहुव्रीहिसमास
उपबहवः । उत्तरपूर्वा । सपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः । ८६२ आपो ऽन्यतरस्याम् । ( ७-४-१५ ) कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः, बहुमालकः । कबभावे बहुमालः । ८६३ न संज्ञायाम् । ( ५-४ - १५५) 'शेषात् -' ( सू ८१ ) इति प्राप्तः कन्न स्यात्संज्ञायाम् । ‘गन्धस्येदुत्पूति-' इति कृतसमासान्तोऽयम् । प्रियपथ इति । 'ऋक्पू:' इति कृतसमासान्तोऽयम् । उपबहव इति । संख्ययाव्यय-' इति बहुव्रीहिरयम्, न शेषाधिकारस्थः । उत्तरपूर्वेति । अयमपि 'दिङ्नामान्यन्तराले' इति बहुव्रीहिः, न शेषाधिकारस्थः । सपुत्र इति । 'तेन सह -' इत्ययमपि बहुव्रीहिः, न शेषाधिकारस्थः । ननु सकृदुच्चारिताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह - तन्त्रादिनेति । श्रादिना श्रवृत्तिसंग्रहः । एकमनेकोपयोगि तन्त्रम् | उच्चारयित्रा तन्त्रेणोच्चारितात् शब्दाद् आवृत्त्या बोध इति बोध्यम् । 'श्वेतो धावति' इत्यादौ सकृदुच्चार - णेऽपि 'श्वा इतो धावति, श्वेतगुणको धावति' इत्येवमनेकार्थबोधदर्शनादिति भावः । आपोऽन्यतस्याम् । कपीति । 'न कपि' इत्यतस्तदनुवृत्तेरिति भावः । आबन्तस्येति । प्रत्ययग्रहणपरिभाषया लब्धमिदम् । ह्रस्वो वेति । 'शृदृप्रां ह्रस्वो वा' इत्यतः तदनुवृत्तेरिति भावः । 'न कपि' इति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । बहुमालाक इति । बह्वयो माला यस्येति विग्रहः । ह्रस्वपक्षे बहुमालक इति भवति । कपो वैकल्पिकत्वात् पक्षे बहुमालः । सर्वत्र 'स्त्रियाः पुंवत् -' इति पुंवत्वम् । न संज्ञायाम् । शेषादिति प्राप्त इति । 'अनन्तरस्य - ' इति न्यायात् 'शेषाद्विभाषा' इति विहितस्य कप एवायं निषेधः, न तु व्यवहितस्य 'नघृसमासान्ता इत्युक्तम् । सुगन्धिरिति । 'गन्धस्येत् -' इत्यादिना इत्समासान्तः । प्रियपथ इति । 'ऋक्पू :-' इत्यप्प्रत्ययः समासान्तः । उपबहव इति । संख्ययाव्यया—' इत्यादिना समासः । उत्तरपूर्वेति । 'दिङ्नामा -' इत्यादिना समासः । सपुत्र इति । 'तेन सहेति -' इत्यादिना समासः । अयं भावः - 'शेषो बहुव्रीहिः' इत्यतः शेषपदम् 'अनेकमन्यपदार्थे' इत्येतस्मिन्नेव सूत्रेऽनुवर्तते, ' संख्ययाव्ययासन्ना-' इत्यादिषु च निवर्तते । तथा च शेषाधिकारस्थत्वाभावादुपबहव इत्यादिषु कप्प्रत्ययो नेति । एवं च ‘अनेकमन्यपदार्थे' इति सूत्रात्पृथक् संख्ययाव्ययासन्ना -' इत्यादीनामारम्भः कबभावार्थमप्यावश्यक इति स्थितम् । ननु सकृदुच्चरितस्य शेषशब्दस्यानुक्तसमासान्तपरत्वं शेषाधिकारस्थपरत्वं च कथमित्यत आह - तन्त्रादिनेति । 'अर्थभेदेन शब्द - भेदः' 'सत्यप्यर्थभेदे शब्दस्याभेदः' इति मतद्वयम् । आधे श्रावृत्तिः । द्वितीये तन्त्रमिति विवेकः । यत्तु वदन्ति - 'प्रतिपदोक्ताः समासान्ताः स्वविषये बाधका भवन्ति'