________________
प्रकरणम् १६] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७६ विश्वे देवा अस्य विश्वदेवः। ८६४ ईयसश्च । (५-४-१५६ ) ईयसन्तोत्तरपदाच कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । 'गोस्त्रियोः- (सू ६५६) इति हस्वत्वे प्राप्ते । 'ईयसो बहुव्रीहेर्नेति वाच्यम्' (वा ६६६ ) बह्वयः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम्-अतिश्रेयसिः । ८६५ वन्दिते भ्रातुः। (५-४-१५७ ) पूजितेऽधै यो भ्रातृशब्दस्तदन्तान कप् स्यात् । प्रशस्तो भ्राता यस्य प्रशस्तभ्राता, सुभ्राता । 'न पूजनात्' (सू १५४) इति निषेधस्तु 'बहुव्रीही सक्थ्यषणोः' (सू ८५२) इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम्-मूर्खभ्रातृकः । ८६६ नाडीतन्त्र्योः स्वाङ्गे । (५-४-१५६ ) स्वाङ्गे यौ तश्च' इत्यादिकप इति भावः। विश्वे देवा अस्येति। अत्र संज्ञायां समासस्य नित्यत्वाल लौकिकविग्रहप्रदर्शनं चिन्त्यमेव। ईयसश्च । बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्ययग्रहणपरिभाषयाईयसन्तत्वादाह-ईयसन्तोत्तरपदादिति । बहुव्रीहिणा उत्तरपदादित्याक्षिप्यत इति भावः । न कबिति । 'न संज्ञेयसोः' इति वक्तव्ये पृथग्योगकरणाद् नित्यस्य वैकल्पिकस्य च कपोऽयं निषेध इति भावः। श्रेयांस इति । अतिशयेन प्रशस्ता इत्यर्थः । 'द्विवचनविभज्य-' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः, 'श्राद्गुणः' इति गुणः । बहुश्रेयानिति । शैषिकः कब्निषिध्यते । ह्रस्वत्वे प्राप्त इति । बह्वयः श्रेयस्यो यस्येति बहुव्रीहिः । तत्र श्रेयसीशब्दस्योपसर्जनस्त्रीप्रत्ययान्तत्वाद् ‘गोस्त्रियोः-' इति ह्रस्वत्वे प्राप्ते इत्यर्थः । ईयसो बहुव्रीहेरिति । ईयसन्ताद् बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य ह्रस्वो नेति वाच्यमित्यर्थः । बहुश्रेयसीति । 'नयतश्च' इति नित्यः कबिह निषिध्यते, लिङ्गविशिष्टपरिभाषया ईयस्ग्रहणेन स्त्रीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः । बहुव्रीहेः किमिति । 'ईयसो बहुव्रीहे:-' इत्यत्रेति शेषः। अतिश्रेयसिरिति । श्रेयसीमतिक्रान्त इति तत्पुरुषोऽयमिति भावः । वन्दिते भ्रातुः । पूजितेऽर्थ इति । 'वदि अभिवादनस्तुत्योः' इत्युभयार्थकवदिधातोरिह उभयसाधारणपूजार्थकत्वमाश्रीयत इति भावः । प्रशस्तभ्रातेति । 'नवृतश्च' इति प्राप्तः कबिह निषिध्यते । सुभ्रातेति । सु शोभनो भ्राता यस्य स इति विग्रहः । अत्रापि 'नतश्च' इति प्राप्तस्य कपो निषेधः। ननु 'न पूजनात्' इत्येव निषेधे सिद्ध किमर्थमिदमित्यत आह-न पूजनादिति।प्रागेवेति । एवं च तत्किमनुक्तसमासान्तपरेण शेषग्रहणनेति । तन्न । 'ऋक्पू :-' इत्यादीनां समासान्तरे चरितार्थतया प्रियपथ इत्यादौ परेण कपा बाधापत्तेः । ईयसश्च । नित्यो वैकल्पिकश्च कप् सर्वोऽपि निषिध्यते । बहुश्रेयानिति । अतिशयेन प्रशस्यः श्रेयान् । 'द्विवचनविभज्योप-' इतीयसुन् । 'प्रशस्यस्य श्रः' । 'शेषाद्विभाषा' इति कप्प्राप्तः । बहुश्रेय