________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७३ आपणः । ८७५ अल्पाख्यायाम् । (५-४-१३६) सूपस्य गन्धो लेशो यस्मिस्तत्सूपगन्धि भोजनम् । घूतगन्धि । 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः।' इति विश्वः । ८७६ उपमानाच्च । (५-४-१३७) पद्मस्येव गन्धोऽस्य पद्मगन्धिः । ८७७ पादस्य लोपोऽहस्त्यादिभ्यः। (५-४-१३८) हस्त्यादिवर्जितादुपमानास्परस्य पादशब्दस्य लोपः स्यात् समासान्तो बहुव्रीहौ । च स्मृतः ॥' इति कोशात् । सुगन्ध आपण इति । अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्याणां विशेष्यभूतापणापेक्षया पृथग् लक्ष्यमाणत्वादित्त्वं नेति भावः । अल्पाख्यायाम् । अल्पवचने सति गन्धशब्दस्य इकारोऽन्तादेशः स्याद् बहुव्रीहावित्यर्थः । लेश इति गन्धशब्दस्य विवरणम् । सूपस्य गन्धो यस्मिन्नित्येव विग्रहः । सूपगन्धि भोजनमिति । उत्पूतिसुसुरभिपूर्वकत्वाभावादेकान्तत्वाभावाच्चाप्राप्ते वचनमिदम् । व्यधिकरणपदानामपि क्वचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते । घृतगन्धीति । घृतस्य गन्धो लेशो यस्मिन्निति विग्रहः । गन्धशब्दस्याल्पवाचित्वे प्रमाणमाह-गन्धो गन्धक इति । उपमानाच्च । उपमानवाचिपूर्वपदात् परस्यापि गन्धशब्दस्य इकारोऽन्तादेशः स्याद् बहुव्रीहावित्यर्थः । पद्मस्येवेति । फलितार्थकथनमिदम् । पद्मगन्ध इव गन्धो यस्येति विग्रहः । पद्मपदं पद्मसंबन्धिगन्धसदृशे लाक्षणिकम् । 'सप्तम्युपमानपूर्वपदस्य-' इति समासः । पादस्य लोपः। अहस्त्यादिभ्य इति च्छेदः । उपमानादित्यनुवर्तते । तदाह-हस्त्यादिवर्जितादिति । 'आदेः परस्य' इत्यप्रवृत्तये श्राह-समासान्तो बहुव्रीहाविति । शैषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम् । अन्यथा अनुक्तसमासान्तत्वात् कप् प्रसज्येत । नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आहस्येत्वे-' इति वार्तिके तदेकान्तशब्देन स्वाभाविकत्वं विवक्षितम् , तेनागन्तुकस्य नेत्याहुः। तथा च भट्टिः-'याघ्रायिवान् गन्धवह: सुगन्धः' इति । व्याख्यातं च जयमङ्गलायाम्- 'गन्धस्य-' इत्यादिनेकारः समासान्तो न, 'गन्धस्यत्वे तदेकान्तग्रहणम्' इति वचनात् । सुगन्ध श्रापणिक इति यथेति । अतएव 'भग्नबालसहकारसुगन्धौ' इत्यादीनां प्रामादिकत्वं दुर्घटवृत्तिकृतोक्तम् । अल्पाख्यायाम् । अल्पवाचिनो गन्धस्येकारान्तादेशः स्याद् बहुव्रीहौ । सूपस्य गन्ध इति । अत एव ज्ञापकाद्यधिकरणपदो बहुव्रीहिः । यद्वा फलितार्थकथनमेतत् । सूपो गन्धो यस्मिन्नित्येव विग्रहः। गन्धशब्दस्य विशेषणत्वेऽप्यस्मादेव ज्ञापकात् परनिपातः । पादस्य । यद्ययं लोपः समासान्तो न स्यात् 'आदेः परस्य' इत्यादेः स्यात् । शैषिकः कप च प्रसज्येत, 'शेषाद्विभाषा' इत्यत्र समासान्तापक्षस्य शेषस्याश्रयणादत आह-समासान्त इति । कथं