________________
१७२ ]
सिद्धान्तकौमुदी। [बहुव्रीहिसमाससुरभिभ्यः । (५-४-१३५) एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः । 'गन्धस्येत्त्वे तदेकान्तग्रहणम्' ( वा ३३६८)। एकान्त एकदेश इवाविभागेन लषयमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह-सु शोभना गन्धा द्रव्याण्यस्य सुगन्ध 'स्त्रियाः पुंवत्-' इत्यनेनेति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निङ् । उकार इत् , 'लोपो व्योः-' इति यकारलोपः । युवतिशब्दस्य पुंवत्त्वात् तिप्रत्ययस्य निवृत्तिः । नलोप इति भावः । गन्धस्येदुत् । गन्धस्य इत् इति च्छेदः । एभ्य इति । उत् , पूति, सु, सुरभि एतेभ्य इत्यर्थः । इकारोऽन्तादेश इति । पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः। समासान्ताधिकाराद् 'आदेः परस्य' इति न भवति । उद्गन्धिरिति । उद्गतो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दः असुरभौ । पूतिः गन्धो यस्येति विग्रहः । सुगन्धिरिति । शोभनो गन्धो यस्येति विग्रहः । सुरभिगन्धिरिति । सुरभिः गन्धो यस्येति विग्रहः । सर्वत्र 'वायुः' इति विशेष्यम् । तदेकान्तेति । तस्य विशेष्यभूतद्रव्यस्य एकान्त एकदश इव प्रतीयमान इत्यर्थः । अत्र गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशङ्कय एकान्तशब्द एकदेशवदविभक्ते लाक्षणिक इत्याहएकान्त एकदेश इवेति । सुगन्धि पुष्पं सलिलं चेति । अत्र गन्धस्य पुष्पात् सलिलाच द्रव्यात् पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति । सु इत्यस्य व्याख्यानं शोभना इति । गन्धा इति । गन्धवन्त इत्यर्थः । 'गुणवचनेभ्यो मतुपो लुगिष्टः' इति लुक् । द्रव्याणीति । चन्दनादीमीत्यर्थः । गन्धा इत्यस्य विशेष्यमेतत् । गन्धशब्दस्य नपुंसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात् पुंस्त्वं युज्यते । 'गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि सिद्धम् । गन्धस्येत् । तकार उच्चारणार्थ इत्याशयेनाह-इकारोऽन्तादेश इति। 'आदः परस्य' इतीह न भवति 'समासान्ताः' इत्यधिकारात् । अत्र केचिदाहुःइकारस्य प्रत्ययत्वेऽपि न क्षतिः, 'यस्येति च' इति लोपेनोद्गन्धिरित्यादिरूपसिद्वेः । न च 'तित्वरितम्' इत्यन्तखरितत्वापत्तिः शङ्कया, तकारस्योच्चारणार्थत्वाभ्युपगमात् । नापि षष्ठीनिर्देशादादेशत्वमेव न प्रत्ययत्वमिति वाच्यम् , 'गापोष्टक्' इत्यादिप्रत्ययविधिष्वपि षष्ठीदर्शनादिति । अविभागनेति । एवं च गुणवाचिन एव प्रहणम् , न तु द्रव्यवाचिन इति फलितोऽर्थः । द्रव्याणीति । अस्ति च गन्धशब्दो द्रव्यवचनः, 'वहति जलमियं पिनष्टि गन्धान्' इति प्रयोगात् । 'गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः॥ इति कोशाच्च । केचिंत्तु-गन्ध