________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १७१ ८६६ ऊर्ध्वाद्विभाषा । ( ५-४- १३० ) ऊर्ध्वज्ञः, ऊर्ध्वजानुः । ८७० धनुषश्च । ( ५-४-१३२ ) धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । द्विधेन्वा 1 शार्ङ्गधन्वा । ८७१ वा संज्ञायाम् । ( ५-४ -१३३ ) शतधन्वा, शतधनुः । ८७२ जायाया निङ् । ( ५-४- १३४ ) जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् । ८७३ लोपो व्योर्वलि । ( ६-१-६६ ) वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया श्रस्य युवजानिः । ८७४ गन्धस्येदुत्पूतिसु
रादेश इति । प्रनुरिति । 'प्रादिभ्यो धातुजस्य -' इति समासः । संज्ञुरिति । संगते जानुनी यस्येति विग्रहः । ऊर्ध्वाद्विभाषा । ऊर्ध्वशब्दात् परो यो जानुशब्दः, तस्य ज्ञुरादेशो वा स्यात् । बहुव्रीहावित्यर्थः । ऊर्ध्वनुरिति । ऊर्ध्वे जानुनी यस्येति विग्रहः । धनुषश्च । 'ऊधसोऽनङ्' इति पूर्वसूत्रं स्त्रीप्रत्ययाधिकारे व्याख्यातम् । तस्मादनङित्यनुवर्तते । तदाह – अनङादेश इति । ङित्त्वादन्तादेशः । ‘प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि ङित्त्वादन्तादेश इति भावः । द्विधन्वेति । द्वे धनुषी यस्येति विग्रहः । समासे द्विधनुश्शब्दे सकारस्य अनङादेशः । ङकार इत् । अकार उच्चारणार्थः । उकारस्य यणिति भावः । शार्ङ्गधन्वेति । शृङ्गस्येदं शार्ङ्गम्, ‘तस्येदम्' इत्यण्, तद् धनुर्यस्येति विग्रहः । समासे शार्ङ्गधनुश्शब्दे सकारस्यानङ्, ङकार इत्, अकार उच्चारणार्थः, उकारस्य यरिणति भावः । महिम्नस्तवे 'स्वला - वण्याशंसाधृतधनुषम्' इति प्रयोगस्त्वार्षः । वा संज्ञायाम् । 'धनुषश्च' इत्युक्तः अनङ् संज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपाख्याने प्रसिद्धः । जायाया निङ् | आदेश इति । 'प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि ङित्वादन्तादेशोऽयमिति भावः । लोपो व्योर्वलि । व् य् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । तदाह – वकारयकारयोरिति । पुंवद्भाव इति । द्विवचननिर्देशः, तत्फलं तु स्थानषष्ठीत्वस्फुटीकरणम् । 'जानुनः' इत्युक्ते तु किमियं पञ्चमी प्रत्ययाधिकराज् जुरपि प्रत्यय इत्येवं संदेहः स्यात्, तदेतद् ध्वनयन्नाह - जानुशब्दयोर्मुरादेश इति । शार्ङ्गधन्वेति । कथं तर्हि 'खलावण्याशंसाधृतधनुषमहाय तृणवत्' इति पुष्पदन्तप्रयोग इति चेत् । अत्राहुः समासान्तविधेरनित्यत्वान्नात्रानुपपत्तिः । श्रनित्यत्वे प्रमाणं त्वंश्वादिगणे राजनशब्दपाठः । स हि 'प्रतेरंश्वादयस्तत्पुरुषे' इत्यन्तोदात्तार्थः । ' राजाहः सखि -' इति टचो नित्यत्वे तु किं तेनेति । लोपो व्योर्वलि । व्योर्लोप इति वक्तव्ये 'वेरपृक्तलोपाद्वलिलोपः पूर्वविप्रतिषेधेन' इति ज्ञापयितुमादौ विधेयनिर्देशः कृतः । तेन सुखीयतेः क्विपि सुखीरिति १ 'द्विधन्वा' इति बहुत्र नोपलभ्यते ।