________________
१७० ]
सिद्धान्तकौमुदी। [ बहुव्रीहिसमासमृगः । न्याधेन कृतत्रण इत्यर्थः । ८६६ इच्कर्मव्यतिहारे । (५-४-१२७) कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच्स्यात्समासान्तः । केशाकेशि । मुसलामुसलि। ८६७ द्विदण्ड्यादिभ्यश्च । (५-४-१२८) तादर्थं चतुर्युषा । एषां सिद्धयर्थमिप्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभाहति । उभयाहति । ८६८ प्रसंभ्यां जानुनो ः। (५-४-१२६) श्राभ्यां परयोजानुशम्दयोर्जुरादेशः स्याबहुव्रीहौ । प्रगते जानुनी यस्य प्रजुः । संजुः । दक्षिणेमति रूपम् । लुब्धशब्दं विवृण्वन्नाह-व्याधेनेति रोगादिना व्रणे तु दक्षिणेम इत्येवेति भावः । इच्कर्मव्यतिहारे । समासान्त इति । तद्धित इत्यपि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता । द्विदण्ड्यादिभ्यश्च । द्विदण्ड्यादिषु इदन्तानामेव निपातनात् तेभ्यः परत्वेन इच्प्रत्ययविधिरनर्थक इत्याशङ्कय नेयं पञ्चमीत्याह-तादर्थ्य चतुर्येषेति । द्वौ दण्डाविति । कर्मव्यतिहाराभावेऽपि वैरूप्येऽपि बहुव्रीहिः इच्प्रत्ययश्च निपात्यते । द्विदण्डीति । दण्डादण्डीतिवत् प्रक्रिया । कर्मव्यतिहाराभावात् पूर्वपदस्य न दीर्घ इति विशेषः । द्विमुसलीति । द्वे मुसले यस्मिन् प्रहरणे इति विग्रहः । उभाहस्ति । उभयाहस्तीति । उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः । उभयोऽन्यत्रेति नित्यमयचि प्राप्ते निपातनेन विकल्प्यते । कर्मव्यतिहाराभावेऽपि दीर्घश्च । प्रसंभ्याम् जानुशब्दयोरिति । प्र सम् इति पूर्वपदद्वित्वाद् उत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम् । जानुन इत्युक्ते तु 'प्रत्ययः, परश्च' इत्यधिकारात् पञ्चम्यन्तत्वसंभवात् ज्ञोः प्रत्ययत्वं च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः । तदाहनिपातनं नान्यदेत्यर्थस्तदेतदाह-व्याधेनेति । ‘वाली हेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा' इति प्रयोगस्त्वौपचारिक इति कथंचिन्नेयः । केशाकेशीति । 'तत्र तेनेदम्-' इति कर्मव्यतिहारे बहुव्रीहिः । इच्प्रत्ययस्य तिष्ठद्गप्रभृतिषु पाठादव्ययीभावत्वेऽव्ययत्वम् । नन्वेवमिचश्चित्करणं व्यर्थम् , अव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात्समासखरेणान्तोदात्तत्वसिद्धेः । अत्राहुः-विशेषणार्थं तदावश्यकमेव । तिष्ठद्गप्रभृतिषु इकारमात्रपाठे हि सुगन्धिरित्यादावतिव्याप्तिप्रसङ्गात् । किं चात्राव्ययीभावसंज्ञया बहुव्रीहिसंज्ञा न बाध्यते, किं तु द्वयोः समावेश एव, उपजीव्यविरोधस्यान्याय्यत्वात् । एवं च खरार्थमपि चित्त्वं कर्तव्यमेवेति । द्विदण्डीति । समुदायनिपातनस्य विषयविशेषपरिग्रहार्थत्वाद् द्विदण्डा शालेल्यत्र त्विज् न भवति । उभाहस्तीत्यादि । इह निपातनादेवायचः पाक्षिकत्वम् । प्रसंभ्याम् । जानुशब्दस्यैकत्वेऽप्युपपदनिबन्धनं द्वित्वमाश्रित्य जानुनोरिति