________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६६ इत्यादिवत् । पूर्वपदं तु बहुव्रीहिणा आक्षिप्यते । ८६४ जम्भा सुहरिततृणसोमेभ्यः। (५-४-१२५) जम्भा इति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य, तृणमिव दन्ता यस्येति वा तृणजम्भा। सोमजम्भा। स्वादिभ्यः किम्-पतितजम्भः । ८६५ दक्षिणेर्मा लुब्धयोगे । (५-४-१२६) दक्षिणे ईमें व्रणं यस्य दक्षिणेर्मा केवलपूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साध्वेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति, अनुच्छित्तिः धर्मो यस्येति च विग्रहः । अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वाद् यथायोग्यमनिजिति भावः । नन्विह सूत्रे पूर्वपदशब्दस्य श्रवणादनुवृत्त्यभावाच्च कथं पूर्वपदादिति लभ्यत इत्यत आहपूर्वपदं त्विति । जम्मा सुहरित । जम्भेति नकारान्तं पदम् । तदाहजम्भेति कृतसमासान्तमिति । अनिजन्तमित्यर्थः । सु, हरित, तृण, सोम इत्येतेभ्यः परो यो जम्भशब्दः, तदन्ताद् बहुव्रीहेः अनिच्प्रत्ययो निपातित इति भावः । जम्भो भक्ष्ये दन्ते चेति । अत्र कोशो मृग्यः । सुजम्भेति । सुजम्भशब्दादनिचि 'यस्येति च' इत्यकारलोपः । हरितजम्भेति । हरितो जम्भो यस्येति विग्रहः । तृणमिवेति । तृणशब्दस्य दन्तवाचिना जम्भशब्देन सामानाधिकरण्यलाभाय तृणशब्दस्य तत्सदृशे लक्षणेति भावः । सोमजम्भेति । सोमः चन्द्रः स इव शुभ्रा जम्मा दन्ता यस्येति विग्रहः । सोमः सोमलता वा, सैव जम्भो भक्ष्यं यस्येति विग्रहः । पतितजम्भ इति । पतिता जम्मा दन्ता यस्येति विग्रहः । दक्षिणेर्मा । लुब्धो व्याधः, तद्योगे 'दक्षिणेा-' इत्यनिच्प्रत्ययः, बहुव्रीहिश्च निपात्यते । दक्षिणे ईमें यस्येति विग्रहः । ईर्ममित्यस्य व्याख्यानं व्रणमिति । व्यधिकरणत्वेऽपि बहुव्रीहिर्निपातनात् । अनिचि 'यस्येति च' इत्यकारलोपे व्यावृत्तिसंभवादिति चेत् । अत्राहुः—पूर्वपदाक्षेपे तात्पर्यग्राहकत्वेन केवलपदस्य सार्थकत्वादिति । कर्मधारयपूर्वपद इति । नन्वत्रानिच् दुर्लभः, 'केवलात्' इत्यस्य समासानात्मकत्वादित्यर्थादिति चेत् । मैवम् , केवलग्रहणस्य समासानात्मकपूर्वपदपरत्वे मानाभावात् । निवृत्तिधर्मा हि स्थानी भवतीत्यादिप्रयोगविरोधाच्च । अस्मदुक्तार्थस्तु 'धृञ् धारणे' इति धातौ माधवग्रन्थे स्पष्टः । एतेन साध्यो धर्मोऽस्येति साध्यधर्मा संदिग्धश्चासौ साध्यधर्मा चेति विग्रहः । स च संदेहः साध्यधर्मद्वारक एव पर्यवस्यतीति केषांचियाख्यानं परास्तम् । उक्तरीत्यैव साध्यस्य साक्षात् संदिग्धत्वलाभे तत्समर्थनप्रयासस्य व्यर्थत्वात् । साध्वेवेति । परमश्चासौ वश्च परमस्वः, स धर्मो यस्येति यदा विगृह्यते तदेत्यर्थः । दक्षिणेर्मा- लुब्धो व्याधः । तद्योगादेवर्मनिष्पत्ताविदं