________________
१६८ ]
सिद्धान्तकौमुदी। [बहुव्रीहिसमासधर्मशब्दस्तदन्ताद्वहुव्रीहेरनिच्स्यात् । कल्याणधर्मा । केवलात् किम्-परमः खो धर्मो यस्येति त्रिपदे बहुव्रीहौ मा भूत् । स्वशब्दो हीह न केवलं पूर्वपदम् , किं तु मध्यमत्वादापेक्षिकम् । 'सन्दिग्धसाध्यधर्मा इत्यादौ तु कर्मधारयर्वपदो बहुव्रीहिः । एवं च परमस्वधर्मा इत्यपि साध्वेव। निवृत्तिधर्मा, अनुच्छित्तिधर्मा पूर्वपदादित्यध्याहृत्य केवलादित्यस्य तद्विशेषणत्वमाह-केवलात्पूर्वपदादिति । अनिचि चकार इत् । इकार उच्चारणार्थः । मध्यमपदत्वानाक्रान्तत्वं केवलपूर्वपदत्वम् । कल्याणधर्मेति । कल्याणो धर्मो यस्येति विग्रहः । अनिचि 'यस्येति च' इत्यकारलोपः । परम इति । परमः खो धर्मो यस्येति बहुव्रीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात् ततः परमखधर्मशब्दादप्यचः प्राप्तौ तन्निवृत्त्यर्थं केवलप्रहणमिति भावः । केवलग्रहणे कृते तु न दोष इत्याह-स्वशब्दो हीह न केवलं पूर्वपदमिति । किं त्विति । किं तु स्वशब्दो धर्मपदापेक्षया पूर्वत्वात्पूर्वपदम् , न तु केवलम् , मध्यमत्वात्। केवलशब्देन च पदान्तरराहित्यवाचिना मध्यमपदत्वानाक्रान्तत्वलाभादित्यर्थः । इदं च 'इजादेः-' इति सूत्रभाष्ये स्पष्टम् । एवं च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति । नत्वनिच् । 'सर्वनामसंख्ययोरुपसंख्यानम्' इति स्वशब्दस्य पूर्वनिपातस्तु 'वाहिताग्न्यादिषु' इति पाक्षिकत्वान्न भवति । नन्वेवं सति संदिग्धः साध्यो धर्मो यस्य स संदिग्धसाध्यधर्मा इत्यत्र कथमनिच् । अत्र हि संदिग्धेति केवलं पूर्वपदम् , धर्मशब्दस्तस्मात् परो न भवति । यस्मात् साध्यशब्दात् परो धर्मशब्दः, तस्य तु न पूर्वपदत्वम् , मध्यमपदत्वादित्यत आह-संदिग्धेति । संदिग्धश्वासौ साध्यश्चेति कर्मधारयः, संदिग्धसाध्यो धर्मो यस्येति कर्मधारयगर्भो बहुव्रीहिः। एवं च संदिग्धसाध्यशब्दस्य केवलपूर्वपदत्वात् तत्रानिज् निर्बाध इति भावः । एवं चेति । उक्तरीत्या परमश्वासौ स्वश्च परमखः, परमस्खः धर्मो यस्येति कर्मधारयाश्रयणे तु शब्दोऽयमित्यकारोच्चारणमिह सप्रयोजनमेवेत्याहुः । बहुव्रीहिणात्र पूर्वपदमाक्षिप्यत इत्यनुपदमेव वक्ष्यति । तच्च 'केवलात्' इत्यनेन विशेष्यत इत्याह-केवलात्पूर्वपदादिति । प्राचा तूत्तरपदमपि विशेषितम् । प्रसादकृतापि केवलादिति धर्मशब्दस्य पूर्वपदस्य च विशेषणमिति व्याख्यातम् , तदुभयमपि चिन्त्यम् । आवृत्तौ मानाभावात् , धर्मपदविशेषणे प्रयोजनाभावाच । न च धर्मशब्दान्तं यत्रोत्तरपदं तद्यावृत्तिः फलमिति वाच्यम् , तत्र बहुव्रीह्यवयवीभूतपूर्वपदात्परत्वस्य धर्मपदे असंभवादेवादोषत्वात् । मध्यमत्वादिति । न च 'सर्वनामसंख्ययोः-' इति स्वशब्दस्य पूर्वनिपातः शङ्कयः, माहिताग्म्यादेराकृतिगणत्वादिति हरदत्तादिभिः समाहितत्वात् । आपेक्षिकमिति । नाव न केवलाइ व्यर्थम् , पूर्वशब्स्य समासप्रथमावयवे रूढत्वेनैव मध्यमपद